पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/२०१

पुटमेतत् सुपुष्टितम्
११.शेषबिन्दुः]
१८३
मन्दारमरन्दचम्पूः ।

यथोचितं राक्षसानां पैशाची परिकीर्तिता ।
अवरैर्लिङ्गिदेवर्षिविप्रामात्याग्रजाः सुधीः ॥
भगवच्छब्दवाच्याः स्युः सूत्रिणार्येति सा नटी ।
तेनानुगो मारिषश्च पारिपार्श्वक इत्यपि ॥
नट्या सूत्री त्वार्यपुत्रस्तथार्यश्चेति कीर्त्यते ।
अनुगेन स भावः स्यात्पूज्यैः शिष्यात्मजानुजाः ॥
वत्साः सूतेन चायुष्मान्रथी शिष्यात्मजानुजैः ।
पूज्यस्तु सुगृहीतश्च तातश्चेत्यपि कीर्त्यते ॥
नृपेण गणिका नाम्नानुचरैरज्जुकेति सा ।
सर्वैस्तु युवराजोऽपि कुमारो भर्तृदारकः ॥
भृत्यैर्भट्टारको देवो नृपो विप्रैस्तु नामतः ।
विदूषकेण राजेति वयस्य इति वा नृपः ॥
ऋषिभिः स च राजा स्यादधमैर्भट्ट इत्यपि ।
नृपेण महिषी देवी तदन्या चैव योगिनी ॥
अपरैर्भट्टिनी सैव नीचैर्गोस्वामिनीति सा ।
अब्रह्मण्यमवध्योक्तौ माता त्वम्बेति कीर्त्यते ॥
भगिनीपतिरावुत्तो राजशालस्तु राष्ट्रियः ।
ज्येष्ठा तु भगिनी चात्ताप्यन्तिका चात्तिकेति वा ।
नीचासंबोधने हण्डे चेटीं हञ्जे सखीं हला ॥
इति रूपकभाषानिबन्धनप्रकरणम् ।
व्यभिचारिरसस्थायिभावानां शब्दवाच्यता ।
कष्टकल्पनया व्यक्तिरनुभावविभावयोः ॥
प्रतिकूलविभावस्य ग्रहो दीप्तिः पुनः पुनः ।
अकाण्डप्रथनं चैव रसच्छेदोऽङ्गविस्तृतिः ॥
तथाङ्ग्यननुसंधानं प्रकृतीनां विपर्ययः ।
तथानङ्गाभिधानं च रसदोषास्त्रयोदश ॥
दृष्टे प्रियेऽस्या लज्जाभूद्रसतां च ययौ रतिः ।