पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/२०६

पुटमेतत् सुपुष्टितम्
१८८
काव्यमाला ।

उच्छ्वासान्ते वक्त्रयुतं रचितापरवक्त्रकम् ।
उच्छ्वासादौ सपर्याङ्गमिदमाख्यायिकाभिधम् ॥
(कथा--)
श्लोकैः स्ववंशं संक्षेपात्कविर्यत्र प्रशंसति ।
मुख्यार्थस्यावताराय भवेत्तत्र कथान्तरम् ॥
परिच्छेदो न यत्र स्याद्भवेत्त्वालम्भकः क्वचित् ।
सा कथा नाम तद्गर्भे निबध्नीयाच्चतुष्पदीम् ॥
(उदाहरणम्--)
येन केनापि तालेन गद्यपद्यसमन्वितम् ।
जयेत्युपक्रमं मालिन्यादिप्रासविचित्रितम् ।
तदुदाहरणं नाम्ना विभक्त्यष्टाङ्गसंयुतम् ॥
(चक्रवालकम्--)
संबोधनविभक्त्या यत्प्रचुरं पद्यपूर्वकम् ।
विमुक्तपुनराकृष्टशब्दं स्याच्चक्रवालकम् ॥
(भोगावली--)
आद्यन्तपद्यसंयुक्ता संस्कृतप्राकृतात्मिका ।
अष्टभिर्वा चतुर्भिर्वा वाक्यैः स्कन्धसमन्विता ॥
प्रतिस्कन्धं भिन्नवाक्यरीतिर्देवनृपोचिता ।
सर्वतो देवशब्दादिरेष भोगावली मता ॥
(बिरुदावली--)
वर्ण्यमानाङ्कबिरुदवर्णनप्रचुरोज्ज्वला ।
वाक्याडम्बरसंयुक्ता कथिता बिरुदावली ॥
(तारावली--)
ताराणां संख्यया पद्यैर्युक्ता तारावली मता ।
(विश्वावली--)
विश्वेषां संख्यया पद्यैर्युक्तो विश्वोदयो मतः ।