पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/२०९

पुटमेतत् सुपुष्टितम्
११.शेषबिन्दुः]
१९१
मन्दारमरन्दचम्पूः ।

सुरापाने गतिवचःस्खलनं नयनभ्रमः ।
लज्जामानच्युतिश्चित्तभ्रमरक्ताक्षतादयः ॥
सूर्योदयेऽम्भोजचक्रनेत्रपान्थविकासनम् ।
रागो भेन्दुतमोघूककुवचोरविषादनम् ॥
चन्द्रोदये तु विरहिचक्राब्जकुलटार्तयः ।
अब्धिदम्पतिचन्द्राश्मचकोरप्रीतिपूर्वकाः ॥
वसन्ते पिकगानाम्रमञ्जरीमन्दमारुताः ।
पुष्पाणि द्रुदलोद्भेदपलाशभ्रमरादयः ॥
ग्रीष्मे पाटलमल्लीतापसरःपथिकशेषाम्रफलपाकाः ।
मृगतृष्णाल्पसमीरः कान्ता पानीयशालिका मुख्याः ॥
वर्षासु मेघहलिकेतकनिम्नगानां
झञ्झानिलस्य शिखिजातिकदम्बकानाम् ।
प्रीतिश्च हंसगमनं नलिनीलतानां
पत्त्रोद्भवोऽर्कलतिकादलपातनाद्याः ॥
शरदि सूर्यसुधाकरपाटवं विमलताम्भसि हंसवृषस्मयाः ।
कमलशारदसैकतविस्तृतिः सुशिखिपक्षमदापगमादयः ॥
हेमन्ते रजनीदैर्घ्यं नलिनीकुसुमक्षतिः ।
दिनाल्पत्वं हिमप्रौढिबकानन्दयवोद्भवाः ॥
शिशिरे वेणुकुन्दाब्जदाहः शिखिरतोत्सवाः ।
स्वयंवरे सतीपूजावाद्यघोषनृपागमाः ॥
राजपुत्र्या नृपाकारान्वयचेष्टाप्रकाशनम् ।
विवाहे मङ्गलस्नानं भूषणं कामिनीरवः ।
वेदी संगीततारेक्षालाजाहोमद्विजादयः ॥
वनकेलौ च कुसुमावचयः कुसुमार्पणम् ।
दयिते गोत्रविभ्रान्तिसपक्षेर्ष्योक्तिपूर्वकाः ॥
जलकेलौ जलक्षोभश्चक्रहंसापसर्पणम् ।
पद्मग्लानिपयोबिन्दुदृग्रागाभूषणच्युतिः ॥