पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/२१

पुटमेतत् सुपुष्टितम्
१.वृत्तबिन्दुः]
मन्दारमरन्दचम्पूः ।

तथाप्याचार्यश्रीगुणगणकथावर्णनपरे
मयि प्रेम प्राज्ञाः कुरुत कविकीर्त्यैककमने ॥ ४ ॥

मनोहृद्यगद्यानवद्योरुपद्यं प्रबन्धं रसज्ञा यदि स्युर्भजेयुः ।
न चेत्ते त्यजेयुः पुरंध्रीकदम्बं युवानो भजेयुस्तदन्ये त्यजेयुः ॥ ५ ॥

किरति मधु सुधीसत्कर्णपालीषु वाणी
मम किमरसिकानां भूषणे दूषणे वा ।
सुखयति सुमुखीनां सारशृङ्गारलीला
तरुणमिह शिशूनामादरेऽनादरे किम् ॥ ६ ॥


न प्रज्ञा प्रकर्षेण ज्ञानं नास्तीत्यर्थः । पाणिनिमते व्याकरणे न परिचयश्च । अलंकारादौ वा न । परिचयो नास्तीत्यर्थः । गौतममते न्याये न च चतुरता चातुर्यमपि नास्तीत्यर्थः । तथाप्येतादृशग्रन्थकरणहेत्वभावेऽप्याचार्यस्य श्रीमदाचार्यस्य विष्णोर्वा गणगणकथाया वर्णने परे आसक्ते कवीनां कीर्त्यैककमने कीर्त्यैककामुके मयि हे प्राज्ञाः, प्रकर्षेण जानन्तीति प्राज्ञा विद्वांसः प्रेम कुरुतेति प्रार्थनायां लोट् । यद्वा न वेदान्ते प्रज्ञेत्यादिः काकुः । ‘बोद्धारो मत्सरग्रस्ताः’ इति लोकप्रसिद्धेस्तथापीत्युक्तम् । आचार्यश्रीगुणगणकथावर्णनपरे इति विशेषणं हेतुगर्भम् । तथा चेदृशशास्त्राभ्यासिनि मयि आचार्यगुणगणकथावर्णनपरत्वसत्त्वात्तद्दृष्ट्वा मात्सर्यमुत्सार्य प्रेम कुरुतेति प्रार्थना । एतेन कुत्रचिदपि शास्त्रेऽनभिज्ञस्य ग्रन्थकर्तृत्वं कथं घटते इति शङ्का परास्ता । शिखरिणी वृत्तम् । ‘रसै रुद्रैश्छिन्ना यमनसभलागः शिखरिणी’ इति लक्षणात् ॥ ४ ॥ अथेमां मदीयप्रार्थनामनादृत्य मयि मत्सरिणश्चेन्न काप्यस्माकं क्षतिरित्याशयं पद्यद्वये स्फुटयति-- मनोहृद्येति । रसान् शृङ्गारादीन् जानन्तीति रसज्ञा यदि स्युस्तर्हि मनोहृद्यैर्गद्यैरनवद्यैः उरुभिरुत्कृष्टैः पद्यैर्युक्तं प्रबन्धं प्रकर्षण बध्यते कविनेति प्रबन्धो वर्णसमुदायात्मकग्रन्थः तं भजेयुः । ‘भज सेवायाम्’ लिङ् । ते रसज्ञा न चेत्प्रबन्धमित्यनुषङ्गः । त्यजेयुः । 'त्यज हानौ' । संभावनायां लिङ् । पुरध्रीणां सुचरित्राणां कदम्ब युवानश्चेद्भजेयुः । तदन्ये युवभिन्ना वृद्धास्त्यजेयुः । ‘वृद्धानां तरुणी विषम्’ इति प्रसिद्धेः । अत्र रसज्ञारसज्ञकर्तृकप्रबन्धकर्मकभजनत्यागरूपोपमेयार्थस्य तरुणातरुणकर्तृककान्ताकर्मकभजनत्यागरूपोपमानार्थस्य च पृथग्वाक्यद्वये निर्देशात्प्रतिवस्तूपमालंकारः ॥ ५ ॥ किरतीति । मम वाणी सुधियां शोभना धीर्येषां तेषामित्यर्थः । बुद्धौ शोभनत्वं च परश्रेयोविषयीकरणजन्यसुखसामानाधिकरण्यम् । सत्कर्णपालीषु श्रोत्रप्रदेशेषु मधु किरति क्षिपति । लट् । अरसिकानां कर्तरि षष्ठी । दूषणे भूषणे वेति विकल्पे । किं न किमपि । दूषणे कृते सति नानन्दः भूषणे कृते सति न व्यसनमिति भावः । सुमुखीनां सुन्दरीणां सारा श्रेष्ठा शृङ्गारलीला