पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/२१३

पुटमेतत् सुपुष्टितम्
११.शेषबिन्दुः]
१९५
मन्दारमरन्दचम्पूः ।

भूर्जत्वग्हिमवत्येव मलयेष्वेव चन्दनम् ।
रक्तत्वं रत्नबन्धूकबिम्बाम्भोजविवस्वताम् ॥
कृष्णत्वं केशकामालिपिककाकपयोमुचाम् ।
सामान्यशौक्ल्यं छत्राम्भः पताकापुष्पवाससाम् ॥
वसन्त एव वर्ण्य स्यात्परपुष्टस्य कूजितम् ।
वर्षास्वेव मयूराणां रुतं नृत्यं च वर्णयेत् ॥
लज्जाकोपायशोनाशरोषाक्रन्दास्यकृष्णताः ।
रागपाण्डुरतादैन्यविषपानतपोजपाः ॥
दुःखद्वेषाभिचारेर्ष्यासहनोद्ग्रीविकादयः ।
वर्णनीया जितस्यैते पराभवसमुद्भवाः ॥
विकल्पेन निबन्धनं यथा--
कृष्णत्वं हरितत्वं वा कमलासंपदोर्मतम् ।
पीतत्वं रक्तता वाग्नौ परागे स्वर्णविद्युतोः ॥
दानवासुरदैत्यानामैक्यमेवातिसमतम् ।
कटाक्षे शौक्ल्यकृष्णत्वे लोध्रे लोहितपाटलौ ॥
चन्द्रे शशमृगौ कामध्वजे मकररोहितौ ।
एवं कवीनां समयो दिङ्मात्रं परिकीर्तितः ॥
इति वर्ण्यावर्ण्यप्रकरणम् ।
पदार्थस्तु द्विधा प्रोक्तो भावाभावविभेदतः ।
भावश्चतुर्विधो जातिगुणद्रव्यक्रियात्मना ॥
जातिस्तु द्विविधा प्रोक्ता सामान्योपाधिभेदतः ।
सामान्यं तु घटत्वादिरुपाधिश्चन्द्रतादिकः ॥
गुणास्त्वनेके कथिता गन्धरूपरसादयः ।
द्रव्यं तु दशधा पृथ्वीजलतेजःप्रभञ्जनः ॥
तमो व्योमात्मदिक्कालमनांसीति विभेदतः ।
कर्तृत्वं च क्रिया सैकाभावस्तु त्रिविधो मतः ॥