पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/२५

पुटमेतत् सुपुष्टितम्
१.वृत्तबिन्दुः]
मन्दारमरन्दचम्पूः ।

वंशस्थं स्याज्जतजरा गुहास्यऋतुभिर्यतिः ।

परिस्फुरत्स्फाटिकसालमण्डलप्रगल्भवल्गत्प्रतिबिम्बबन्धुरा ।
तितंसति क्षीरपयोधिबन्धुतां किलोच्चलद्यत्परिखाजलावली ॥ १५ ॥

वातोर्मी मभता गौ च श्रुतिसप्तयतिर्भवेत् ॥

पद्मान्येतत्परिखासंभवानि वीचीजालैर्मृदुलं संचलन्ति ।
मन्ये नूनं फणिनां कन्यकानां नीरक्रीडानिरतानां मुखानि ॥ १६ ॥

इन्द्रवज्रा ततजगा गो हरास्यर्तुभिर्यतिः ॥


शुभ्रांशोश्चन्द्रस्य बिम्बस्य परिचुम्बनाय ढाकमानौनि । 'ढौकृ गतौ' इत्यस्माच्छानच् । राराज्यमानानि भृशं प्रकाशमानानि । 'राजृ दीप्तौ' इत्यस्माद्यङन्ताच्छानच् । वराणि राजतानि रूप्यमयानि सौधशृङ्गाणि हर्म्याग्राणि यस्यां सा या रजतपीठपुरी । पुलोमपुत्र्याः शच्याः केलीषु लोलमनसः आसक्तचित्तस्य । इन्द्रस्येति यावत् । नगरीममरावतीं विजेतुं जिगमिषा गमनेच्छाम् । 'इण गतौ' इत्यस्मात्सन्नन्ताद्भावे अप्रत्ययः । सोसूच्यते पुनः पुनरतिशयेन वा सूचयति । 'सूच पैशून्ये' इत्यस्मात् 'सूचिसूत्र्यट्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः' इति वार्तिकानुसारेण यङि 'सन्यङो' इति यङ्ङन्तप्रथमैकाचो द्वित्वे 'गुणो यङ्लुकोः' इत्यभ्यासगुणे सोसूच्यत इति रूपम् । नु इत्युत्प्रेक्षायाम् । अत्रातिशयोक्त्युत्प्रेक्षयोरङ्गाङ्गिभावसंकरः ॥ १४ ॥ वंशस्थमिति । जतजरा जगणतगणजगणरगणाः । गुहास्यैः षड्भिः ऋतुभिः षड्भिः । अत्रापि नवेत्यनुषज्यते ॥ परिस्फुरदिति । परिस्फुरत्प्रकाशमानं स्फाटिकं स्फटिकमयं सालस्य प्राकारस्य मण्डलं तस्य प्रगल्भवल्गद्यत्प्रतिबिम्बं तेन बन्धुरा निबिडीकृता । व्याप्तेति यावत् । उच्चलन्ती यस्याः पुर्याः परिखायां स्थितानां जलानामावली । क्षीरपयोधेर्बन्धुता साम्यम् । 'बन्धुश्चौरः सुहृद्वादी कल्पः प्रख्यः प्रभः समः । देशीयदेश्यरिप्वाभसोदराद्या इवार्थकाः ॥” इति देवेश्वरः । तितंसति तनितुमिच्छति । 'तनु विस्तारे' इत्यस्मात्सन्नन्तात्कर्तरि लट् । किलेल्युत्प्रेक्षायाम् ॥ १५ ॥ वातोर्मीति । मभता मगणभगणतगणाः । गो च गुरुद्वयं च । श्रुतिसप्तभिश्चतुर्भिः सप्तभिश्च वर्णैर्यतिश्चेद्वातोर्मी नाम वृत्तं भवेत् ॥ पद्मानीति । एतस्या पुरः परिखासंभवानि । वीचीना तरङ्गाणा जालैश्चयैः । मृदुलं यथा तथा संचलन्ति पद्मानि । फणिना सर्पाणां नीरक्रीडाया जलक्रीडायां निरतानां कन्यकानां मुखानि मन्ये इत्युत्प्रेक्षा । अत्र पादान्तस्थस्य वैकल्पिकगुरुत्वान्न छन्दोभङ्गः ॥ १६ ॥ इन्द्रवज्रेति । ततजगास्तगणतगणजगणगुरवः । गः गुरुः । हरास्यैः पञ्चभिः ऋतुभिः षड्भि