पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/३९

पुटमेतत् सुपुष्टितम्
१.वृत्तबिन्दुः]
२१
मन्दारमरन्दचम्पूः ।

दशरैर्व्याल आख्यातो जीमूतो रुद्ररैर्मतः ॥
लीलाकरः सूर्यरैः स्यादुद्दामो विश्वरैर्मतः ।
मनुरैः शङ्खनामा स्यात्तिथिरैः पद्मको मतः ॥
एवमेकैकरगणवर्धनात्सकलाङ्घ्रिषु ।
एकन्यूनसहस्रार्णपर्यन्तं दण्डका मताः ॥
गणसप्तकसंयुक्तो नद्वयाद्रगणं विना ।
बुधैः प्रवितकः ख्यातः कैश्चिद्यैः सप्तभिर्युतः ॥
नगणद्वितयादेतदेकैकगणवर्धनात् ।
कुमुदाब्जतरङ्गादिनाम्ना भेदाश्च पूर्ववत् ॥

इति दण्डकप्रकरणम् ।

उपचित्रा ससौ सल्गा ओजे युजि भभा गुरू ।
द्रुतमध्या भत्रयं गावोजेऽन्यत्र नजौ जयौ ॥
ओजे वेगवती सागः समे तु भभसा गगौ ।
ओजे भद्रविराट् तज्रा गो नोजे मसजा गगौ ॥
ओजे केतुमती सज्सा गोऽनोजे भरताः सगौ ।
ओजे वियोगिनी सौ ज्गावनोजे सभरा लगौ ॥


एवमग्रेऽपि ॥ गणसप्तकेति । नद्वयान्नगणद्वयोत्तर रगणं विना । ‘पृथग्विनानानाभिस्तृतीयान्यतरस्याम्' इति द्वितीया । गणसप्तकेन युक्तः प्रवितकनामा दण्डको भवति । कैश्चित्केदारादिभिः । यैर्यगणैः ॥ इति माधुर्यरञ्जन्यां दण्डकप्रकरणम् ॥

 अथ दण्डकस्यापि समपादचतुष्टयवत्त्वेन समवृत्तकथनानन्तरमधुनार्धसमवृत्तानि क्रमप्राप्तानि लक्षयति । सामान्यलक्षणं तु पूर्वमेवोक्तमिति । तद्भेदेषु प्रथमं तावदुपचित्रालक्षणमाह-- उपचित्रेति । ओजे विषमे ससौ सगणद्वयं सल्गाः सगणलघुगुरवः । युजि समे समपादयोरित्यर्थः । भभा भगणत्रयं गुरू गुरुद्वयं यदि तर्हि उपचित्रा नाम वृत्तं भवति । एवमग्रेऽपि बोध्यम् । अत्र केषाचिद्भद्रविराडादीनामौपच्छन्दसिकादिभ्यो वैतालीयभेदेभ्योऽभेदेऽपि गणनियमानियमरूपोपाधिभेदाद्भेदो बोध्यः । अत एव केदारोऽपि औपच्छन्दसिक विराड्वृत्तमप्याह स्म । अत एव पिङ्गलोऽप्युवाच--'वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितः । पुष्पिताग्राभिध केचिदौपच्छन्दसिकं तथा ॥' इति । इदमेव वृत्तं रत्नाकरेऽप्युदाहृतम् ॥ इति माधुर्यरञ्जन्यामर्धसमवृत्तप्रकरणम् ॥