पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/४३

पुटमेतत् सुपुष्टितम्
१.वृत्तबिन्दुः]
२५
मन्दारमरन्दचम्पूः ।

उक्ताचलधृतिः प्राज्ञैर्द्व्यष्टाभिर्लघुभिर्युता ।
जो वा नलौ वा विश्लोकः ख्यातो मात्राचतुष्टयात् ॥
जो वा नलौ वा द्व्यब्धिभ्यो मात्राभ्यो वा नवासिका
लघुश्चेन्नवमश्चित्रा तथैवाष्टमपञ्चमौ ॥
उपचित्रा तु मात्राभ्यो वसुभ्यो भगणो यदि ।
कथं वा द्व्यष्टमात्राभिः पादाकुलकमिष्यते ॥

इति मात्रासमके षोडशमात्राप्रकरणम् ।

रुचिरा लघवो यत्र विंशतिश्चेत्पुनर्नव ।
अष्टाविंशतिलैर्गेन युतं शिखितमुच्यते ॥
त्रिंशल्लैर्गेन युक्तं तु गुणितं परिकीर्तितम् ।
विषमे शैखितं युक्ते गौणितं यदि सा शिखा ॥
अस्यां तु विपरीतायां खजेति परिकीर्त्यते ।
गुरवः षोडशायुक्ते द्वात्रिंशल्लघवो युजि ।
यदि स्युर्ब्रुवतेऽनङ्गक्रीडां तां तु मनीषिणः ॥

इति मात्रासमके त्रिंशन्मात्राप्रकरणं मात्रासमप्रकरणं च ।

ओजयोः पादयोरादौ षण्मात्रा रलगा अथ ।
युक्तयोः पादयोरादावष्टमात्रा रलौ गुरुः ॥


 अथ मात्रासमकभेदानाह-- तत्रादौ षोडशमात्रावृत्तभेदानाह--उक्तेति । द्व्यष्टाभिः षोडशभिः लघुभिर्युता प्राज्ञैरचलधृतिरित्युक्ता । जो वेति । मात्राचतुष्टयात् जो वा जगणो वा । नलौ वा नगणलघू वा यदि तर्हि विश्लोको नाम वृत्तं भवति । अस्य षोडशमात्रात्मकत्वं सर्वं मिलित्वा एकपादस्य नियतमेव । एतादृशपादचतुष्टयात्मकं वृत्तं भवति । एवमग्रेऽपि । द्व्यब्धिभ्यो मात्राभ्यः अष्टमात्राभ्य इत्यर्थः । वसुभ्यः अष्टाभ्यः । कथं वेति । गुरुलघुनियमो नास्तीत्यर्थः । इति षोडशमात्राप्रकरणम् ॥

 अथ त्रिंशन्मात्रावृत्तान्याह-- रुचिरेत्यादिना । ननु त्रिंशन्मात्रावत्त्वाभावादस्य पादस्य कथं त्रिंशन्मात्रावत्त्वमिति चेत् । अष्टाविंशतिमात्रामारभ्य द्वात्रिंशन्मात्रापर्यन्तं त्रिंशन्मात्रोपचारः पूर्वैरङ्गीकृत इति न विरोधः । इति त्रिंशन्मात्राप्रकरणम् ॥

 अथ वैतालीयं लक्षयति-- ओजयोरित्यादिश्लोकत्रयेण । ओजयोः पादयोः विषमपादयोः, युक्तयोः पादयोः समपादयोरित्यर्थः । एतयोः समपादयोः केवलं लघवः नैव ।