पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/४७

पुटमेतत् सुपुष्टितम्
२.सारबिन्दुः]
२९
मन्दारमरन्दचम्पूः ।

'किमिदं पुरतः पश्य दिशो धवलयत्यलम् ।
देवगारमिवाभाति देवागारसमद्युति ॥ २ ॥
को देवः केन वा पूर्वं प्रतिष्ठां प्राप्य पूजितः ।
नरीनृतीति तच्चित्ते श्रोतुं कान्त कुतूहलम्' ॥ ३ ॥

 एवमनया नयाभिरामया पृष्टः कलगीतस्तत्रैव प्रस्थाप्य विमानवरममितामोदभरितः समूलंकषमुदन्तं पूर्वं वक्तुमुपचक्राम--

'अत्रैव पूर्वं सरसीरुहाक्षि शान्तः कृतज्ञः प्रियवाग्द्विजेन्द्रः ।
मुख्यादनन्तेश्वरसंप्रसादाल्लेभे सुतं मध्यगृहाभिधानः ॥ ४ ॥

त्रेतायां रामकान्ताविरहदवहतस्वान्तसंतापभारो ।
येनाशम्याशु लङ्कास्थितजनकसुतासारसंदेशवाक्यैः ।
येन प्रामर्दि दृप्तः सुबलसुदुहितुर्द्वापरे पुत्रवर्ग-
स्तेनापि प्रार्थितेन त्रिदशपरिषदा मध्यगेहात्मजत्वम् ॥ ५ ॥

प्रारोदि बालसरणीमनुसृत्य तेन प्राहासि तन्मुखमलोकि पितुः समीपे ।
प्राचालि तत्र करजानुनिवेशनेन प्राभाषि विस्खलितवर्णकमर्भकेलौ ॥ ६ ॥
वासुदेवाभिधानस्य बालस्य मध्यगेहभट्टश्चकार यदोपनयनम् ।
तदैव शारदा विजहार रसनाग्रे तस्य यथा ब्रह्मसभायां सर्वदेवैः संस्तुता ॥ ७ ॥


दनरसिकसुरः कृष्ण इति यावत् ॥ किमिदमिति । देवागस्य मेरोः अरमत्यन्तं समाद्युतिर्यस्येति विग्रहः ॥ २ ॥ नरीनृतीति । पुनः पुनरतिशयेन वा नृत्यतीत्यर्थः । 'नृती गात्रविक्षेपे' इत्यस्माद्यङो लुक् ॥ ३ ॥ नयो विनयः । अत्रैवेति । रजतपीठपुर्यामित्यर्थः । मध्यगृहाभिधान इति । मध्यगृहभट्ट इत्यर्थः ॥ ४ ॥ त्रेतायामिति । रामस्य कान्ताविरहदवहते स्वान्ते सतापभारः । लङ्कास्थिताया जनकसुतायाः सारैः श्रेष्ठैः संदेशवाक्यैः करणैः येन कर्त्रा आशु अशमि । 'शमु उपशमे' इत्यस्मात्कर्मणि लुङि चिण् । 'नोदात्तोपदेशस्य मान्तस्यानाचमेः' इति नोपधावृद्धि: । द्वापरे सुबलसुदुहितुर्गान्धार्याः पुत्रवर्गः येन प्रामर्दि । त्रिदशपरिषदा देवसदसा प्रार्थितेन तेन वायुनेत्यर्थः । मध्यगेहात्मजत्वं मध्यगेहभट्टपुत्रत्वं कर्म अपि प्राप्तमित्यर्थः । 'आप्लृ व्याप्तौ' इत्यस्मात्कर्मणि चिण् (लुङ्) ॥ ५ ॥ प्रारोदीति । बालसरणीं बालरीतिम् । 'कृदिकारादक्तिनः' इति ङीष् । तन्मुखं पितृमुखम् । अर्भकेलौ बालकेल्याम् । 'पोतः पाकोऽर्भको दिम्भः' इत्यमरः । विस्खलितं वर्णकं यस्मिन्कर्मणि यथा तथा । 'वर्ण तु वाक्षरः' इत्यमरः ॥ ६ ॥