पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/५२

पुटमेतत् सुपुष्टितम्
३४
काव्यमाला ।

मध्वेनाद्वैतराद्धान्तध्वान्तविध्वंसनाविना ।
तेन प्रतिष्ठितामेतां मूर्तिं जानीहि मानिनि ॥ १८ ॥
पुरा पूर्द्वारकासीद्दाशार्हानन्दकारिका ।
मध्येवारिधि गोपस्त्रीलालसेनाभिपालिता ॥ १९ ॥
कदाचित्तत्र देवक्या बालकेलीः प्रदर्शय ।
इत्युक्तो रुक्मिणीकान्तः शुद्धान्ते बालकोऽभवत् ॥ २० ॥

तदङ्कमारुह्य हसंस्तदास्यं पश्यन्स्तनं तत्र पपौ मुकुन्दः ।
तदानभिज्ञा विवशान्तरा सा सुखाम्बुराशौ विजहर देवी ॥ २१ ॥

दध्यमत्रं विभज्याथ नवनीतं प्रभक्षयन् ।
बिडालेभ्यो ददद्भूयो वैशाखं नेत्रमाहरत् ॥ २२ ॥
कालमल्पं विहृत्यैवमत्यजद्बालकाकृतिम् ।
हृष्टाङ्गी देवकी दृष्ट्वा विस्मयं प्रययौ मुहुः ॥ २३ ॥

विलोक्य भैष्मी बत बालरूपिणं सदा तदभ्यर्चनकाङ्क्षया सती ।
कृष्णाज्ञया निर्जरशिल्पिना मुदा निर्माययामास तदा तदाकृतिम् ॥ २४ ॥

रुक्मिण्यर्चितकृष्णार्च्यामर्जुनो द्वारकास्थिताम् ।
कृष्णावतारेऽवसितेऽस्थापयद्रुक्मिणीवने ॥ २५ ॥


ष्वङ्गणे रणः' इति रत्नमाला । हरौ निरतं सक्तं मध्वमित्यर्थः । मम हरावित्यनुषज्यते । दृढा भक्तिरिह लोके भुक्तिर्भोगस्ततो जन्मान्तरे (न) मुक्तिर्भवतु इति नाथे याचे । 'नाथृ नाधृ याच्ञोपतापैश्वर्याशीः पु' इत्यस्माल्लट् ॥ १७ ॥ मध्वेनेति । अद्वैतराद्धान्तोऽद्वैतसिद्धान्त एव ध्वान्त तस्य विध्वंसनेऽविना सूर्येण । 'अवयः शैलमेषार्काः' इत्यमरः । तेन प्रतिष्ठितामेतां मूर्तिं विग्रह कृष्णप्रतिमामित्यर्थः । हे मानिनि जानीहि ॥ १८ ॥ पूः पुरी । अत्र भूलोके । दाशार्हा यादवः । गोपस्त्रीलालसेन कृष्णेनेत्यर्थः ॥ १९ ॥ शुद्धान्तेऽन्तःपुरे । 'शुद्धान्तश्चावरोधश्च' इत्यमरः ॥ २० ॥ तदङ्क देवक्युत्सङ्गम् । सा देवकी ॥ २१ ॥ दध्यमत्र दधिपात्रम् । वैशाखं मन्थनदण्डम् । 'पात्रामत्र च भाजने' इति, 'वैशाखमन्थमन्थानमन्थानो मन्थदण्डके' इति चामरः । नेत्र मन्थनदाम । 'नेत्र मथिगुणे वस्त्रे' इति विश्वः ॥ २२ ॥ २३ ॥ निर्जरशिल्पिना विश्वकर्मणेत्यर्थः । तदाकृति कृष्णाकारम् ॥ २४ ॥ कृष्णार्च्या कृष्णप्रतिमाम् । 'प्रतिमानं प्रतिबिम्बं प्रतिमा प्र