त्रिरावर्तनं यथा--
कमलयामलया मलयानिलप्रचलयाचलयाचलया तया । |
एवमेव चतुःपञ्चावर्तनादय उन्नेया इति दिक् ।
चित्रं स्याद्यदि वर्णानां पद्माद्याकारहेतुता । |
यथा---
विशदमहितकीर्तिश्रीप्रभावानिमग्नं |
कमलयेति । मदीये वैकुण्ठवर्णन इदम् । अचलयाचलया अचल क्रीडापर्वत यातीत्यचलयास्तादृशी अचला भूर्यस्यास्तथोक्तम् । असनिहितभूदेवीकयेत्यर्थः । अमलया निर्दुष्टया कमलया श्रीदेव्या कर्त्र्या । मलयानिलेन मन्दमारुतेन । मलयानिलपदे मन्दमरुतविषयिणी कविरूढिः । प्रचलया संचलयामृतवीरुधामृतलतया कलिते व्याप्ते कुञ्जगृहे
गृहसदृशकुञ्जे मनोजमहोत्सव कामकेलिः समुदपादि उत्पादित । कृत इत्यर्थः ॥ १० ॥
उपसंहरति एवमिति ॥ इति माधुर्यरञ्जिन्यां यमकप्रकरणम् ॥
उद्देशक्रमेण चित्रं लक्षयति-- चित्रमिति ।चित्त राति आदत्ते इति चित्रम् । विस्मयकारीत्यर्थः । तच्च शब्दालङ्कारः, अर्थालंकारश्च । काव्यस्य तु चित्ररूपशब्दालंकारार्थालंकारतदुभयविशिष्टत्वेन चित्रत्वम् । चित्रमस्यास्तीति चित्रमित्यर्शआदित्वादच् । अत्र तु चित्ररूपशब्दालंकारनिरूपणं बोध्यम् । पद्मादीति । आदिपदेन नागगजविभक्तिद्वयादयः(?) । तथा च पद्माद्याकारहेतुभूतवर्णत्वं चित्र(त्व)मित्यर्थः । अस्य चित्रस्येत्यर्थः । चित्रोपायं निरूपयति--
विनेत्यादिना । हलादीनामिति । हल्वर्णा आदौ येषां तेषामित्यर्थः । अस्यैताद्दशवाक्यस्य । लोट इति । लोट्प्रत्ययान्तस्येत्यर्थः । मध्यमस्य मध्यमपुरुषस्य । पदोद्भेदात्पदच्छेदात् । एतत्सर्वमुदाहरणे बोध्यम् । विशदमहितकीर्तिश्रीप्रभावानिमग्नमिति । अत्र ‘श्रीप्रभाव आनिमग्नम्' इति मारुतिपक्षे पदच्छेदः । 'श्रीप्रभौ आनिमग्नम्' इति
चन्द्रसूर्यपक्षे । 'श्रीप्रभावाः निमग्नम्' इति विधिहरिशितिकण्ठपक्षे । कुरुतमुदितमेनमित्यत्रापि