पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/६६

पुटमेतत् सुपुष्टितम्
४८
काव्यमाला ।

प्रथमापञ्चम्योर्यथा--

लसद्द्विपादः पञ्चास्यादविशेषविधायकः ।
नमद्द्विजाय पाहीति नमश्चक्रे स भात्वते ॥ २७ ॥

एवमेव द्वितीयादिषूह्याः । अक्षरमात्राबिन्दुच्युतकानुलोमप्रतिलोमादयोऽपि ।

जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन ।
गुहपुरनिलयेन प्रोद्धृतश्चित्रबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥

 इति श्रीमद्घटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणश्चन्द्रदेवशर्मणश्च कृतौ मन्दारमरन्दे चम्पूप्रबन्धे चित्रबिन्दुश्चतुर्थः समाप्तिमगमत् ।


जनैरिभ्य आढ्य इति कृष्णविशेषणमपि भवति । 'शयनं सुरते निद्राशय्ययोश्च नपुंसकम्' इति मेदिनी । 'इभ्याकरेणुशल्लक्योः स्त्रियामाढ्ये प्रियेऽन्यवत्' इत्यनेकार्थः ॥ २६ ॥ लसदिति । सः कर्ता । लसद्द्विपादः लसन्तौ द्वौ पादौ यस्य स इति प्रथमैकवचनम् । अन्यत्र लसन्तं द्विपं गजमत्तीति लसद्द्विपात् तस्मादिति पञ्चम्येकवचनम् । अत एव पञ्चास्यात्सिंहात् अविशेषविधायकः विशेषाभावविधायकं । सम इति यावत् । विशेषत्वं च भेदबोधकधर्मत्वम् । 'अन्यारादितरर्ते दिक्शब्दाञ्चूत्तरपदाजाहियुक्ते' इति सूत्रेण प्रतियोगिवाचकपञ्चास्यपदात् सप्तमी । अन्य इत्यर्थग्रहणमित्युक्तेः । तथा च प्रतियोगित्वं पञ्चम्यर्थः । तस्य विशेषपदार्थैकदेशे भेदेऽन्वयः । संपन्नो व्रीहिरित्यादौ क्वचिदेकदेशान्वयस्वीकारात् । तदभावपक्षे विशेषपदस्यैव भेदे लक्षणा । तथा च अविशेषविधायक इत्यस्य भेदाज्ञापक इत्यर्थः । इदं तच्छब्दार्थकर्तृविशेषणम् । नमतां द्विजानामयः शुभावहविधिर्येन तस्य सबुद्धिः । नमद्द्विजायेति संबोधनम् । सूर्योदये सति यज्ञदानस्नानादिशुभावहव्यापाराः प्रवर्तन्ते । पाहीति उक्त्वा भास्वते सूर्याय नमश्चक्रे । भास्वन्तमनुकूलयितुं नमश्चक्र इत्यर्थः । 'क्रियार्थोपपदस्य कर्मणि स्थानिन' इति चतुर्थी । क्रियार्थोपपदस्य तुमुन्नन्तस्याप्रयुक्तस्य धातोर्यत्कर्म तत्प्रयोगं, विना तदर्थकर्मतया यद्विवक्षित तद्वाचकपदाच्चतुर्थीति सूत्रार्थः । 'अयः शुभावहो विधिः' इति कोशाददन्तोऽयशब्दः । ग्रन्थगौरवभीत्या उपसंहरति-- एवमिति । द्वितीयादिषु द्वितीयादिविभक्तिविशिष्टेषु । तथा च द्वितीयान्तस्य तृतीयाद्यन्तान्वयेन तृतीयान्तस्य चतुर्थ्याद्यन्तान्वयेनेत्यादिरीत्योह्या इत्यर्थः ॥ जलजनीति । पद्यं पूर्ववदेव बोध्यम् ॥ इति श्रीमन्दारमरन्दव्याख्याया माधुर्यरञ्जन्याख्याया गूढकर्तृकाया चित्रबिन्दुश्चतुर्थः ॥