पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/६९

पुटमेतत् सुपुष्टितम्
५.बन्धबिन्दुः]
मन्दारमरन्दचम्पूः ।

पदश्रीनिर्धूतद्रुमनवपलाशान्तररमां
महीजातां तां भो धृतनिललधाम व्रज भज ॥ २ ॥

एवं द्वित्रिचतुर्नागबन्धेषु यथासंभवं भेदा ऊहनीयाः ।

ओजयुक्तेष्वाद्यषष्ठतृतीयान्त्यैकता भवेत् ॥
दलैर्द्वादशभिर्युक्तः पद्मबन्धस्त्वनुष्टुभि ॥

 यथा--

दाराणां सुखदातारं दैत्यदामहर मुदा ।
दावाग्निमरिदावस्य भजे दामोदरं सदा ॥ ३ ॥

 द्वादशदलपद्मभेदो यथा--

कमलाचित्तनालीक कलीनाहतकं[१]टक ।
कटकं देहि भालाक कलां भाढ्यललामकम् ॥ ४ ॥


निन् जीव, मुरस्य दैत्यस्यारातेः शत्रोः । विष्णोरित्यर्थः । उत् उत्कृष्टं चरणं एव शरजं जलजं तस्मिन्नमन्द जागरूक मधुपं भ्रमरमिति रूपकम् । लक्ष्मीः कान्ति वृणोति यामिति लक्ष्मीवर्याम् । अधिककान्तिमतीमित्यर्थः । श्रेष्ठलक्ष्मीमिति विशेषणोत्तरपदबहुव्रीहिः । रचितस्य गुरुणो महतः पामस्य(म्नः) पापस्य प्रशमित शमनम् । भावे क्तः । यया ताम् । 'पामा विचर्चिकायां स्त्री न द्वयोः पापपङ्कयोः' इत्यनेकार्थः । पदश्रिया पादकान्त्या निर्धूता तिरस्कृता दुमस्याशोकस्य नवस्य नूतनस्य पलाशस्य पत्रस्यान्तररमा मध्यलक्ष्मीर्यस्यास्ताम् । 'द्रुमो नाशोकवृक्षयोः' इत्यनेकार्थः । महीजाता भूमिजातां तां सीता भज । 'भज सेवायाम्' लोट् । धुतो निरस्तो निललो नितरां लल्यते ईप्स्यते इति निललः ससारो यस्मिंस्तथाविध धाम स्थानम् । मुक्तिमित्यर्थः । व्रज । अत्र 'लक्ष्मीपते पाहि' इति प्रतीयते अष्टकोणस्थितवर्णः ॥ ओजेति । ओजौ प्रथमतृतीयौ च युक्तौ च द्वितीयचतुर्थौ च तेषु । तथा च प्रथमतृतीयपादयोराद्यषष्ठवर्णौ । द्वितीयचतुर्थपादयोस्तृतीयान्त्यवर्णौ यौ तेषामेकरूपत्वमिति भावः । उदाहरणे दा इत्यक्षरं तथाविधं बोध्यम् । दाराणामिति । पत्नीनामित्यर्थः । दैत्यानां दाम मालां हरतीति तथोक्तम् ॥ कमलेति । कमलाया लक्ष्म्याश्चित्तमेव नालीकं पद्मम् । 'नालीक त्वब्जे क्लीब शरे पुमान्' इति रत्नमाला । तस्मिन् भ्रमरेति संबोधनम् । 'कलीनं तु खलीनेलौ' इत्यनेकार्थः । आसमन्ताद्धत कण्टको येन तस्य संबुद्धौ तथोक्तम् । 'रोमाञ्चे क्षुद्रशत्रौ च द्रुमाङ्गे कण्टकोऽस्त्रियाम्' इति त्रिकाण्डशेषः । भालाङ्कः । 'भालाङ्कः करपत्रे स्याच्छाकभेदे च रोहिते । महालक्षणसंपन्नपुरुषे

  1. १-२. परसवर्णस्य नित्यत्वे बन्धानुगुण्येनानुस्वार एव रक्षितः