पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/७१

पुटमेतत् सुपुष्टितम्
५.बन्धबिन्दुः]
५३
मन्दारमरन्दचम्पूः ।

गजबन्धो यथा--

राजाभास्या भासमानस्वर्णकर्णस्वपिस्वरा ।
सारापाला पातु लोला सा पिकस्वनमासरा ॥ ७ ॥

चक्रबन्धो यथा--

श्रीराजीवविराजमाननयनं श्यामाम्बुदामं हरिं
श्रीमद्वीन्द्र(?)महेन्द्रवन्दितपदं पापादपेतं भजे ।
अञ्चन्तं गजराजवज्जनकजातालस्तनालिङ्गितं
सान्द्रप्रेमभरं स्वभक्तनिवहे गेयस्ववीर्यं बुधैः ॥ ८ ॥

छत्रबन्धो यथा---

सालजालवलद्वाते भूरिभूते दृगादृते ॥
सा रराज रमा चारुरुचा मारजरारसा ॥ ९ ॥


क्तः । मया सपदा नारेण नरसमूहेन च स्फातानामभिवृद्धानां जिना जयवतामत एव भ्राजितां प्रकाशमानानां रिपूणां निवहस्य वृन्दस्य ध्वसनव्यासे नाशविस्तारे साम उपायो यस्य स तथोक्तः । 'व्यासो मुनौ च विस्तारे' इति त्रिकाण्डशेषः । क्षादीना वक्षःस्थलादिवाचकत्वमेकाक्षरकोशे द्रष्टव्यम् ॥ राजाभेति । राजाभास्या भासमान स्वर्णकर्णस्वपिस्वरा सारापाला पातु लोला सा पिकस्वनमासरा इति पदच्छेदः । सेति तच्छब्दबलाद्येति लभ्यते । या राजाभास्या चन्द्राभमुखी । 'राजा चन्द्रो नृपो राजा' इति मञ्जरी । स्वं पातीति स्वपम् । द्रव्यसाध्यमित्यर्थः । मुक्ताफलमिति यावत् । स्वपमस्यास्तीति स्वपि । भूषणमिति यावत् । कर्णयोः स्वपि । कर्णसंबन्धि भूषणमित्यर्थः । स्वरः गानं भाषणं वा । कर्णस्वपि च स्वरश्च कर्णस्वपिस्वरौ । स्वर्णमस्यास्तीति स्वर्णम् । अन्यत्र सुष्ठु अर्णाः वर्णानि यस्मिन् स स्वर्णः । स्वर्ण च स्वर्णश्च स्वर्णौ (?) स्वर्णौ च तौ कर्णस्वपिस्वरौ च स्वर्णकर्णस्वपिस्वरौ भासमानौ स्वर्णकर्णस्वपिस्वरौ सुवर्णमयकर्णभूषणशोभनाक्षरयुक्तभाषणे यस्याः सेति तथोक्तम् । 'स्वरो गाने भाषणे नासिकानिले । उदात्तादौ च षड्जादावकारादौ ध्वनौ पुमान् ॥' इत्यनेकार्थः । अराणामिदमार चक्रं तेन आसमन्तात्पलयतीत्यारापालो विष्णुः । तेन सहिता सारापाला । स्वनस्य मा संपत् तस्याः सरः । माला । पिकस्य स्वनमासर इव स्वनमासरो यस्याः सा तथोक्ता । लोला अस्थिरा लक्ष्मीः पातु रक्षतु । 'पा रक्षणे' इत्यस्माल्लोट् ॥[१]

  1. अस्माभिरियानेव टीकाग्रन्थ उपलब्धः.