पृष्ठम्:मृच्छकटिकम्.pdf/१००

पुटमेतत् सुपुष्टितम्
९२
मृच्छकटिके

 चारुदत्तः—कदाचिदेवमपि स्यात्। (सर्वतो निरूप्य, सहर्षम्) वयस्य। दिष्ट्या ते प्रियं निवेदयामि।।

 विदूषकः—किं ण अवहिदं। [किं नापहृतम् ?।]

 चारुदत्तः—हृतम्।

 विदूषकः—तधा वि किं पिअं?। [तथापि कि प्रियम्।]

 चारुदत्तः—यदसौ कृतार्थों गतः।

 विदूषकः—णासो खु सो। [न्यासः खलु सः।]

 चारुदत्तः—कथं न्यासः?। (मोहमुपगतः)

 विदषकः—समस्ससदु भवं। जई णासो चोरेण अवहिदो तुमं किं मोहं उवगदो?।[समाश्वसितु भवान्। यदि न्यासचौरेणापहृतस्त्वं किं मोहमुपगतः?।]

 चारुदत्तः—(समाश्वस्य) वयस्य!

कः श्रद्धास्यति [१]भूतार्थं सर्वो मां तुलयिष्यति।
शङ्कनीया हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता॥ २४ ॥

भोः! कष्टम्,—

यदि तावत्कृ[२]तान्तेन प्रणयोऽर्थेषु मे कृतः।
किमिदानीं नृशंसेन चारित्रमपि दूषितम्?॥ २५ ॥

 विदूषकः—अहं खु अवलविस्सं-'केण दिग्णं, केण गहिदं, को वा सक्खि' त्ति। [अहं खल्वपलपिष्यामि–'केन दत्तम्, केन गृहीतम्, को वो साक्षी' इति।]


यावत्। अवहि (ह) दं अपहृतम्॥दिष्ट्या हर्षे॥ण अवहिदं नापहृतम्। क इति। निष्प्रतापा निष्पौरुषा॥ २४ ॥ यदीति। प्रणयोsर्थित्वम्॥ २५ ॥


टिप्प०—


  1. चौरेण हेमभाण्डं हृतमित्येवंरूपं भूतार्थमिति भावः
  2. कृतान्तेन दैवेनेत्यर्थः‘कृतान्तो यमसिद्धान्तदेवकुशलकर्मसु' इत्यमरः