पुटमेतत् सुपुष्टितम्
९३
तृतीयोऽङ्कः

चारुदत्तः--अहमिदानीमनृतमभिधास्ये ।।

भैक्ष्येणाप्यर्जयिष्यामि पुनर्न्यासप्रतिक्रियाम् ।।
अनृतं नाभिघास्यामि चारित्रभ्रंशकारणम् ॥ २६ ॥

 रदनिका-ता जाव अज्जा धुदाए गदुअ णिवेदेमि । [ तद्यावदार्या धूतायै गत्वा निवेदयामि । ] ( इति निष्क्रान्ताः सर्वे ) । ( ततः प्रविशति चेट्या सह चारुदत्तवधूः )

 वधूः-(ससंभ्रमम् ) अई, सच्चं अवरिक्खदसरीरो अजउत्तो अज्जमित्तेएण सह । [ अयि ! सत्यमपरिक्षतशरीर आर्यपुत्र आर्यमैत्रेयेण सह । ] ।

 | चेटी--भट्टिणि ! सच्चं, किं तु जो सो वेस्साजणकेरको अलंकारओ सो अवहिदो। [ भर्त्रि! सत्यम्, किं तु यः स वेश्याजनस्यालंकारकः सोऽपहृतः ।]

( वधूर्मोहं नाटयति )

 चेटी-समस्ससदु अज्जा धूदा। [ समाश्वसित्वार्या धूता ।]

 वधूः-( समाश्वस्य ) हञ्जे ! किं भणासि-अवरिक्खदसरीरो अज्ज उत्तो' त्ति ? । वरं दाणिं सो सरीरेण परिक्खदो, ण उण चारित्तेण । संपदं उज्जइणीए जणो एव्वं मंतइस्सदि-दलिद्ददाए अज्जउत्तेण ज्जेव ईदिसं अकज्जे अणुचिट्ठिदं' त्ति । (ऊर्ध्वमवलोक्य, निःश्वस्य च ) भअवं कअंत ! पोक्खरवत्तपडिदजलबिंदुचंचलेहिं कीलसि दलिद्दपुरिसभाअधेएहिं । इअं च मे एक्का मादुघरलद्धा अणावली चिट्ठदि । एदं पि अदिसोंडीरदाए अजउत्तो ण गेण्हिस्सदि । हञ्जे ! अज्जमितेअं दाव


भैक्ष्येणेति ॥ २६ ॥ अवरक्खणजणस्य अपगतं रक्षणं यस्यासौ अपरक्षणो

टिप्प०-1 चारुदत्तस्य भार्यायै । अग्रे च 'वधू'पदेनेयमेव सर्वत्र ग्राह्या ।