पुटमेतत् सुपुष्टितम्
९४
मृच्छकटिके

सद्दावेहि ।। चेटि! किं भणसि–'अपरिक्षतशरीर आर्यपुत्र' इति ? वरमिदानीं स शरीरेण परिक्षतः । न पुनश्चारित्र्येण सांप्रतमुज्जयिन्यां जन एवं मन्त्रयिष्यति---‘दरिद्रतयार्यपुत्रेणैवेद्दशमकार्यमनुष्ठितम्' इति । भगवन्कृतान्त ! पुष्करपत्रपतितजलबिन्दुचञ्चलैः क्रीडसि दरिद्रपुरुषभागधेयैः । इयं च मे एका मातृगृहलब्धा रत्नावली तिष्ठति । एतामप्यतिशौण्डीर- तयार्यपुत्रो न ग्रहीष्यति । चेटि! आर्यमैत्रेयं तावदाह्वय ।] चेटी-जं अज्जा धूदा आणवेदि । ( विदूषकमुपगम्य ) अज्जमित्तेअ ! धूदा दे सद्दावेदि। [यदार्या धूताज्ञापयति । आर्य मैत्रैय ! धूता त्वामाह्व- यति ।।

 विदूषकः–कहिं सा ? । [ कुत्र सा? ।] चेटी-एसा चिट्ठदि, उवसप्प । [ एषा तिष्ठति, उपसर्प । ]

 विदूषकः--( उपसृत्य) सोत्थि भोदीए । [ स्वस्ति भवत्याः ।]

 वधूः-- अज्ज ! वंदामि । अज्ज ! पौरत्थिमामुहो होहि । [ आर्य ! वन्दे । आर्य ! पुरस्तान्मुखो भव । ]

 विदूषकः--एसो भोदि । पौरत्थिथमामुहो संवुत्तो म्हि। [ एष भवति! पुरस्तान्मुखः संवृत्तोऽस्मि ।]

 वधूः–अज्ज ! पडिच्छ इमं । [ आर्य ! प्रतीच्छेमाम् ।।

 विदूषकः-किं ण्णेदं ? । [ किं न्विदम् ?।]

 वधूः-अहं खु रअणसट्ठिं उववसिदा आसि । तहिं जधाविहवाणुसारेण बम्हणो पडिग्गाहिदव्वो । सो अ ण पडिग्गाहिदो, ता तस्स किदे पडिच्छ इमं रअणमालिअं । [ अहं खलु रत्नषष्ठीमुपोषितासम् । तत्र यथाविभवानुसारेण ब्राह्मणः प्रतिग्राहितव्यः । स च न प्रतिग्राहितः, तत्तस्य कृते प्रतीच्छेमां रत्नमालिकाम् ।।


वेश्याजनः (?)अवहिदो अपहृतः ॥ पौरत्थिमामुहो पौरस्त्याभिमुखः । पूर्व-