विदूषकः--मा दाव अक्खाइदस्स अभुत्तस्स अप्पमुल्लस्स चोरेहिं अवहिदस्स कारणादो चतुःसमुद्दसारभूदा रअणावली दीअदि । [मा तावदखादितस्याभुक्तस्याल्पमूल्यस्य चौरैरपहृतस्य कारणाश्चतुःसमुद्रसारभूता रत्नावली दीयते । ।
चारुदत्तः-वयस्य ! मा मैवम्,-
यं समालम्ब्य विश्वासं न्यासोऽस्मासु तया कृतः । |
तद्वयस्य ! अस्मच्छरीरस्पृष्टिकया शापितोऽसि, नैनामग्राहयित्वात्रागन्तव्यम् । वर्धमानक ! ।
एताभिरिष्टिकाभिः संधिः क्रियतां सुसंहतः शीघ्रम् । |
वयस्य मैत्रेय ! भवताप्यकृपणशौण्डीर्यमभिधातव्यम् ।।
विदूषकः--भो, दलिदो किं अकिवणं मंतेदि ? । [ भोः, दरिद्रः किमकृपणं मन्त्रयति ? ।]
चारुदत्तः-अदरिद्रोऽस्मि सखे ! । ( यस्य मम ‘विभवानुगता भार्या-' [३।२८] इत्यादि पुनः पठति ) तद्गच्छतु भवान् ; अहमपि कृतशौचः संध्यामुपासे ।
( इति निष्क्रान्ताः सर्वे )
इति संधिच्छेदो नाम तृतीयोऽङ्कः ।
चतुःसमुद्देति । चतु:समुदाणां रत्नाकराणां सारभूता ।। यमिति । समालम्ब्ये- त्याद्यपूर्वेऽपि सोहणसवनविभवेति ( ? ) कुलीनत्वादेरित्यर्थः (?) ॥ २९ ॥ एताभिरिति ॥ ३० ॥ सत्त्वमाशयं महत्त्वम् (?) ॥
इति संधिच्छेदो नाम तृतीयोऽङ्कः ।
दिप्प०-- तस्य महतः प्रत्ययस्य विश्वासस्य मूल्यं रत्नावलीरूपं दीयते इति
निष्कर्षः। 2 संस्पर्शेनेत्यर्थः । 3 शपथं प्रापितः । 4 कृपणमेव मन्त्रयतीत्यर्थः । इतीदं परिहसतीति भावः। 5 प्रातःसंध्याम् ।