पृष्ठम्:मृच्छकटिकम्.pdf/१०५

पुटमेतत् सुपुष्टितम्
९७
चतुर्थोऽङ्कः

चतुर्थोऽङ्कः

चतुर्थोऽङ्कः

(ततः प्रविशति चेटी')

 चेटी-आणत्तम्हि अत्ताए अज्जआए सआसं गंतुं । एसा अज्जआ चित्तफलअणिसण्णदिट्टी मदणिआए सह किंपि मंतअंती चिट्ठदि । ता जाव उवसप्पामि । [आज्ञप्तास्मि भात्रार्यायाः सकाशं गन्तुम् । एषार्या चित्रफलकनिषण्णदृष्टिर्मदनिकया सह किमपि मन्त्रयन्ती तिष्ठति । तद्यावदुपसर्पमि । ] ( इति परिक्रामति )

(ततः प्रविशति यथानिर्दिष्टा वसन्तसेना मदनिका च)

 वसन्तसेना-हञ्जे मदणिए ! अवि सुसदिसी इअं चित्ताकिदी अज्जचारुदत्तस्स । [ चेटि मदनिके ! अपि सुसदृशीयं चित्राकृतिरार्यचा- रुदत्तस्य ।

 मदनिका—सुसदिसी । [सुसदृशी ।]

 वसन्तसेना--कधं तुमं जाणासि ? । [कथं त्वं जानासि ? ।]

 मदनिका--जेण अज्जआए सुसिणिद्धा दिट्ठी अणुलग्गा । { येनार्यायाः सुस्निग्धा दृष्टिरनुलग्ना।]

 वसन्तसेना-हञ्जे ! किं वेसवासदाक्खिण्णेण मदणिए ! एव्वं भणासि ? । [चेटि ! किं वेशवासदाक्षिण्येन मदनिके! एवं भणसि? । ]

 मदनिका--अज्जए ! किं जो ज्जेव जणो वेसे पडिवसदि, सो ज्जेव अलीअदक्खिणो भोदि? । [आर्ये ! किं य एव जनो वेशे प्रतिव- सति, स एवालीकदक्षिणो भवति ?।] टिप्प००-1 इयं काचन वसन्तसेनाया दासी । 2 वसन्तसेनामात्रा नाम माधवसे- नया। 3 चित्रफलकद्दष्टिः। 4 मम सौन्दर्यानुरूपसौन्दर्यवतीत्यर्थः । 5 चित्रे लेख्य आकृतिः सर्वावयवसंस्थाने चित्राकृतिरित्यर्थः, चित्ररूपालेख्यरूपाकृतिर्वा । 6 ‘वेशो वेश्याजनसमाश्रयः' इत्यमरः । वेशे यो वासस्तेन यद्दाक्षिण्यं नैपुण्यं अनुरागो बा तेनेत्यर्थः ।।

मृ० ७