पुटमेतत् सुपुष्टितम्
९९
चतुर्थोऽङ्कः

 वसन्तसेना--को उण सो ? । [ कः पुनः सः १ ।] चेटी-एसो ज्जेव राअस्सालो संठाणओ । [एष एव राजश्यालः संस्थानकः।]

 वसन्तसेना-( सक्रोधम् ) अवेहि मा पुणो एव्वं भणिस्ससि । [ अपेहि, मा पुनरेवं भणिष्यसि ।]

 चेटी--पसीददु पसीददु अज्जआ । संदेसेण1 म्हि पेसिदा । [प्रसीदतु प्रसीदत्वार्या । संदेशेनास्मि प्रेषिता ।]

 वसन्तसेना–अहं संदेस2स्स ज्जेव कुप्पामि । [अहं संदेशस्यैव कुप्यामि।]

 चेटी---ता किंति अत्तं विण्णविस्सं ? । [ तत्किमिति मातरं विज्ञापयिष्यामि ? ।।

 वसन्तसेना---एव्वं विण्णाविदव्वा-जइ मं जीअंतीं इच्छसि, ता एव्वं ण पुणो अहं अत्ताए आण्णाविदव्वा' । [ एवं विज्ञापयितव्या--- 'यदि मां जीवन्तीमिच्छसि, तदैवं न पुनरहं मात्राऽऽज्ञापयितव्या' ।]

 चेटी–जधा दे रोअदि । [यथा ते रोचते ।] ( इति निष्क्रान्ता )

( प्रविश्य )

 शर्विलकः--

दत्त्वा निशायां वचनीयदोषं निद्रां च जित्वा नृपतेश्च रक्ष्यान्।
स एष सूर्योदयमन्दरश्मिः क्षपाक्षयाच्चन्द्र इवास्मि जातः ॥ १॥

अपि च,-

यः कश्चित्त्वरितगतिर्निरीक्षते मां
संभ्रान्तं द्रुतमुपसर्पति स्थितं वा।


विण्णविस्से विज्ञापयिष्यामि ॥ दत्त्वेति ॥ १ ॥ य इति। त्वरितगतिः कश्चित्

टिप्प०- यथा संदेशस्तथा मयोक्तम्, मम नास्त्यत्र दोष इति भावः । यतः

प्रभवो हि संदेशहारिणे न कुप्यन्ति। 2 अत्र 'संदेसस्स' इति चतुर्थ्यर्थे षष्ठी ।