पृष्ठम्:मृच्छकटिकम्.pdf/१०८

पुटमेतत् सुपुष्टितम्
१००
मृच्छकटिके

तं सर्वे तुलयति दूषितोऽन्तरात्मा
स्वदोषैर्भवति हि शङ्कितो मनुष्यः॥२॥

मया खलु मदनिकायाः कृते साहसमनुष्ठितम्।

परिजनकथासक्तः कश्चिन्नरः समुपेक्षितः
क्वचिदपि गृहं नारीनाथं निरीक्ष्य विवर्जितम्।
नरपतिबले पार्श्वायाते स्थितं गृहदारुव-
ह्यवसितशतैरेवंप्रायैर्निशा दिवसीकृता॥३॥

( इति परिक्रमिति )

 वसन्तसेना—हञ्जे! इमं दाव चित्तफलअं मम सअणीए ठाविअ तालवेंटअं गेण्हिअ लहु आअच्छ। [चेटि! इमं तावचित्रफलकं मम शयनीये स्थापयित्वा तालवृन्तं गृहीत्वा लघ्वागच्छ ।]

 मदनिका—जं अज्जआ आणवेदि। [यदार्याज्ञापयति।] (इति फलकं गृहीत्वा निष्क्रान्ता)

 शर्विलकः—इदं वसन्तसेनाया गृहम्। तद्यावत्प्रविशामि। (प्रविश्य) क्व नु मया मदनिका द्रष्टव्या?।

(ततः प्रविशति तालवृन्तहस्ता मदनिका)

 शर्विलकः—(दृष्ट्वा) अये इयं मदनिका

मदनमपि गुणैर्विशेषयन्ती रतिरिय मूर्तिमती विभाति येयम्।
मम हृदयमनङ्गवह्नितप्तं भृशमिव चन्दनशीतलं करोति ॥४॥

मदनिके!।।

 मदनिका—(दृष्ट्वा) अम्मो, कधं सव्विलओ। सव्विलअ। साअदं दे, कहिं तुमं। [आश्चर्यम्, कथं शर्विलकः। शर्विलक! स्वागतं ते। कुत्र त्वम्?।]


संभ्रान्तं माम्॥२॥ परिजनेति॥३॥ मदनमिति॥४॥ अभुजिस्सं