एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
चतुर्थोऽङ्कः

 शर्विलकः---कथयिष्यामि ।

( इति सानुरागमन्योन्यं पश्यतः )

 वसन्तसेना-चिरअदि मदणिआ । ता कहिँ णु खु सा । ( गवाक्षकेन दृष्ट्वा ) कथं एसा केनावि पुरिसकेण सह मंतअंती चिट्ठदि । जधा अदिसिणिद्धाए णिच्चलदिट्टीए आपिबंती विअ एदं णिज्झाअदि तधा तक्केमि, एसो सो जणो एदं इच्छदि अभुजिस्से काटुं । ता रमदु रमदु, मा कस्सावि पीदिच्छेदो भोदु । ण खु सहाविस्सं । [ चिरयति मदनिका । तत्कुत्र नु खलु सा ? कथमेषा केनापि पुरुषकेण सह मन्त्रयन्ती तिष्ठति ? । यथातिस्निग्धया निश्चलदृष्ट्या पिबन्तीवैतं निध्यायति तथा तर्कयामि, एष स जन एनामिच्छथभुजिष्यां कर्तुम् । तद्रमतां रमताम् , मा कस्यापि प्रीतिच्छेदो भवतु । न खल्वाकारयि- ष्यामि ।]

 मदनिका—सलिव्वअ ! कधेहि । [शर्विकल ! कथय । ]

( शर्विलकः सशङ्क दिशोऽवलोकयति )

 मदनिका-सव्विलअ । किं ण्णेदं ससंको विअ लक्खीअसि ।। [ शर्विलक ! किं न्विदं सशक्क इव लक्ष्यसे ? ।।

 शर्विलकः--वक्ष्ये त्वां किंचिद्रहस्यम् । तद्विविक्तमिदम् ।।

 मदनिका--अध ई । [अथ किम् ।]

 वसन्तसेना----कधं परमरहस्सं १ । ती ण सुणिस्सं । [ कथं परम- रहस्यम् ? । तन्न श्रोष्यामि । ]

 शर्विलकः--मदनिके ! किं वसन्तसेना मोक्ष्यति त्वां निष्क्रयेण ? ।

 वसन्तसेना-कधं मम संबंधिणी कधा! । ती सुणिस्सं

टिप्प०-1 कस्यापि रहस्यं न श्राव्यमिति शिष्टसंप्रदायत्वादेवमुक्तिः ।