अखण्डितचारित्र्योऽसि । तन्न खलु त्वया मम कारणास्साहसं कुर्वतात्यन्तविरुद्धमाचरितम् ।]
शर्विलकः--
नो मुष्णाम्यबलां विभूषणवतीं फुल्लामिचाहं लतां |
तद्विज्ञाप्यतां वसन्तसेना,
अयं तव शरीरस्य प्रमाणादिव निर्मितः । |
मदनिका----सव्विलअ ! अप्पकाशो अलंकारओ । अअं च जणो ति दुवेविण जुज्जदि । ता उवणेहि दाव । पेक्खामि एदं अलंकारअं । [शर्विलक ! अप्रकाशोऽलंकारः । अयं च जन इति द्वयमपि न युज्यते । तदुपनय तावत् । पश्याम्येनमलंकारम् । ]
शर्विलकः—इदमलंकरणम् । ( इति साशङ्कं समर्पयति )
मदनिका-( निरूप्य ) दिट्ठपुरुव्वो विअ अ अलंकारओ । ता भणेहि कुदो दे एसो। [ दृष्टपूर्वं इवायमलंकारः । तद्भण कुतस्त एषः ।
शर्विलकः---मदनिके ! किं तवानेन ? गृह्यताम् ।
खल्वाचरितम् , अपि त्वाचरितमेव । नो मुष्णामीति । शूद्रस्वर्णहरणे न तथा पोतकमिति विप्रेत्यादिनोक्तम् ॥ ६ ॥ अयमिति । तव वसन्तसेनायाः ॥ अनुचितः प्रकाशो यस्य सोऽप्रकाशः । अनेनास्माकं दण्ड इत्यनेन न प्रकाशयितव्य इत्यर्थः ॥ ७ ॥ अयं जनो बसन्तसेनास्वरूपः। 'अपिः'अनुनये। 'अयं दिप०----1 शर्विलकेनायं दत्त इति प्रकाशानर्हः। 2 क्व चायं जनो वसन्तसेनादिः सप्रमाणब्यवहारकारिजनः, क्व च पुनश्चौर्यैणासादितं वस्तु १ द्वयमपीदं न
युज्यते इत्यर्थः ।