एतत् पृष्ठम् परिष्कृतम् अस्ति
१०५
चतुर्थोऽङ्कः

 शर्विलकः--( सेर्ष्यम् ) मदनिके ! किं नाम प्रियमिति ?।

त्वत्स्नेहबद्धहृदयो हि करोम्यकार्ये
सद्वृत्तपूर्वपुरुषेऽपि कुले प्रसूतः ।
रक्षासि मन्मथविपन्नगुणोऽपि मानं1
मित्रं च मां व्यपदिशस्यपरं च यासि ॥ ९ ॥

( साकूतम् )

इह सर्वस्वफलिनः कुलपुत्रमहाद्रुमाः ।,
निष्फलत्वमलं यान्ति वेश्याविहगभक्षिताः2 ॥ १० ॥
अयं च सुरतज्वालः कामग्निः प्रणयेन्धनः ।।
नराणां यत्र हूयन्ते यौवनानि धनानि च ॥ ११ ॥

 वसन्तसेना--( सस्मितम् ) अहो, से अत्थाणे आवेओ । [ अहो, अस्यास्थान आवेगः ।]

 शर्विलकः--सर्वथा,-

3अपण्डितास्ते पुरुषा मता मे ये स्त्रीषु च श्रीषु च विश्वसन्ति ।
श्रियो हि कुर्वन्ति तथैव नार्यो भुजङ्गकन्यापरिसर्पणानि ॥ १२ ॥

स्त्रीषु न रागः कार्यो रक्तं पुरुषं स्त्रियः परिभवन्ति । ।
रक्तैव हि रन्तव्या विरक्तभावा तु हातव्या ॥ १३ ॥

सुष्टु खल्विदमुच्यते,—

एता हसन्ति च रुदन्ति च वित्तहेतो-
र्विश्वासयन्ति पुरुषं न तु विश्वसन्ति ।


निभृतं संगतमित्यभिप्रायः ॥ विषादेति ॥ ८ ॥ त्वदिति । मन्मथेन विपन्नो गुणो यस्य । ईदृशोऽपि देहं रक्षामि । मदनिकार्थं चौर्याहरणेन हीनगुणत्वं व्यक्तम् ॥ ५ ॥ इहेति ॥ १० ॥ अयमिति ॥ ११॥ अपण्डिता इति ॥ १२ ॥ स्त्रीष्विति ॥ १३ ॥ एता इति । सुमनसः पुष्पवृत्तेरेक- | टिप्प०---1 कामातुरोऽन्यस्य मानं न रक्षति, अहं तु रक्षामीति भावः । 2 अत्र विशेषणविशेष्ययोः समस्तं सावयवरूपमलंकारः । ३ शक्तस्य कामप्रतिघाते क्रोधो भवति, अशक्तस्य तु विषाद इति शास्त्र क्रुद्धः शर्विलको वेश्याजनं निर्भर्स्त्य,

स्त्रीजातिमग्रिमपञ्चश्लोकैर्निर्भर्त्सयति ।