पृष्ठम्:मृच्छकटिकम्.pdf/११४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
मृच्छकटिके

तस्मान्नरेण कुलशीलसमन्वितेन
वेश्याः श्मशानसुमना इव वर्जनीयाः ॥ १४ ॥

अपि च1,---

समुद्रवीचीव चलस्वभावाः संध्याभ्रलेखेव मुहूर्तरागाः ।।
स्त्रियो हृतार्थाः पुरुषं निरर्थं निष्पीडितालक्तकवत्त्यजन्ति ॥ १५ ॥

स्त्रियो नाम चपलाः,---

अन्यं मनुष्यं हृदयेन कृत्वा अन्यं ततो दृष्टिभिराह्वयन्ति ।
अन्यत्र मुञ्चन्ति मदप्रसेकमन्यं शरीरेण च कामयन्ते ॥ १६ ॥

सूक्तं खलु कस्यापि.–

न2 पर्वताग्ने नलिनी प्ररोहति
न गर्दभा वाजिधुरं वहन्ति ।
यवाः प्रकीर्णा न भवन्ति शालयो
न वेशजाताः शुचयस्तथाङ्गनाः ॥ १७ ॥

आः दुरात्मन् चारुदत्तहतक । अ3यं न भवसि । ( इति कतिचित्पदानि गच्छति )

 मदनिका----{ अञ्चले गृहीत्वा ) अइ असंबद्धभासअ असंभावणीए कुप्पसि । [ अयि असंबद्धभाषक! असंभावनीये कुप्यसि ? ।]

 शर्विलकः--कथमसंभावनीयं नाम ।

 मदनिका-एसो खु अलंकारओ अज्ञआकेरओ । [ एष खल्वलंकार आर्यासंबन्धी।]


वचनान्ततापि । यथा--'अप्रत्याख्येये दधिसुमनसी” इति । ‘सुमना मालती इत्येके । वचनभेदेऽपि सतामनुद्वेजकत्वाददुष्टत्वमुपमायाः ॥ १४ ॥ समु- टिप्प०-1 चपलाश्चचला विद्युतश्च; चपला इव चपला स्त्रिया: इति व्यङ्ग्योपमा । 2 श्लोकस्यास्य प्रथमपादे द्वादशाक्षराणि, द्वितीये एकादशाक्षराणि वर्तन्ते । प्रथमपादे ज-त-ज-भ-गणाः, द्वितीये तु ज-त-ज-ग-ल-गणाश्च वर्तन्ते। अपरार्थे तु वंशस्थं

वृत्तम् । ३ अधुनैव चारुदत्तं इन्मीत्यस्यर्थः ।