पृष्ठम्:मृच्छकटिकम्.pdf/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०७
चतुर्थोऽङ्कः

 शर्विलका-ततः किम् ?।।

 मदनिका--स च तस्स अजस्स इत्थे विणिक्खित्तो । [स तस्यार्यस्य हस्ते विनिक्षिप्तः ।]

 शर्विलकः–किमर्थम् ? ।

 मदनिका--( कर्णे ) एव्वं विअ । [एव1मिव । ]

 शर्विलकः-( सवैलक्ष्यम् ) भोः कष्टम् ,--

छायार्थ ग्रीष्मसंतप्तो यामेवाहं समाश्रितः2 ।
अजानता मया सैव पत्रैः शाखा वियोजिता ॥ १८ ॥

 वसन्तसेना-कधं एसो वि संतप्पदि ज्जेव ? । ता अजाणंतेण एदिणा एवं अणुचिट्ठिदं । [ कथमेषोऽपि संतप्यत एव । तदजानतैतेनैवमनुष्ठितम् ।]

 शर्विलकः-मदनिके 1 किमिदानीं युक्तम् ।।

 मदनिका-इत्थं तुम जेव्व पंडिओ । [ अत्र त्वमेव पण्डितः ।

 शर्विलक-नैवम् ; पश्य,-

स्त्रियो हि नाम खल्वेता निसर्गादेव पण्डिताः ।।
पुरुषाणां तु पाण्डित्यं शास्त्ररेवोपदिश्यते ॥ १९ ॥

 मदनिका--सव्विलअ । जइ मम वेअणं सुणीअदि, ती तस्स


द्रेति ॥ १५ ॥ अन्यमिति ॥ १६ ॥ नेति ॥ १७ ॥ छायार्थमिति पाठा०---१ छायार्थी. टिप्प०-1 चारुदत्तस्याकिञ्चनतया भोगस्य भूरिधनसाध्यत्वात् अयमलंकारो न्यासमिषेण तस्य हस्ते वसन्तसेनया विनिक्षिप्त इति भावः । 2 अत्र अप्रस्तुत

वृतान्तेन प्रस्तुतवृत्तान्तप्रतिपादनात् अप्रस्तुतप्रशंसालंकारः ।