पृष्ठम्:मृच्छकटिकम्.pdf/११६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
मृच्छकटिके

ज्जेव माणुभावस्स पडिणिज्जादेहि । [शर्विलक ! यदि मम वचनं श्रूयते, सदा तस्यैव महानुभावस्य प्रतिनिर्यातय ।]

 शर्विलकः--मदनिके । यद्यसौ रा1जकुले मां कथयति ।

 मदनिका—ण चंदादो आदवो होदि । [ने चन्द्रादात2पो भवति ।।

 वसन्तसेना--साहु मदणिए ! साहु । [ साधु मदनिके ! साधु ।

 शर्विलकः----मदनिके !

न खलु मम विषादः साहसेऽस्मिन्भयं वा
कथयसि हि किमर्थं तस्य साधोर्गुणांस्त्वम् १ ।
जनयति मम वेदं कुत्सितं कर्म लज्जां
नृपतिरह शठानां मादृशां किं न कुर्यात् ॥ २० ॥

तथापि नीतिविरुद्धमेतत् । अन्य उपायश्चिन्त्यताम् ।

 मदनिका-सो अअं अवरो उवाओ । [ सोऽयमपर उपायः ।]

 वसन्तसेना---को खु अवरो उवाओ हुविस्सदि ? । [ कः खल्वपर उपायो भविष्यति ? ।]

 मदनिका---तस्स ज्जेव अजस्स केरओ भविअ एदं अलंकारअं अज्जआए उवणेहि । [ तस्यैवार्यस्य संबन्धी भूत्वेममलंकारकमार्याया उपनय ।।


॥ १८ ॥ स्त्रिय इति ॥ १९ ॥ न खल्विति ॥ २० ॥ | टिप्प०-1 इयं संबन्धसामान्ये षष्ठी । तथा च परावृत्य गत्वा महानुभावाय चारुदत्ताय देहीत्याशयः। 2 यदि न्यायसभायां चैतन्मम् कृत्यं कथयेदित्यर्थः । 3 *आतपशब्देनाप्रकृते केवलमुष्णपरत्वं वक्तृतात्पर्यादुन्नीयते । 4 तेन प्रेषित

इत्याशयः ।