पृष्ठम्:मृच्छकटिकम्.pdf/१२

पुटमेतत् सुपुष्टितम्
मृच्छकटिके

तयोरिदं सत्सुरतोत्सवाश्रयं नयप्रचारं व्यवहारदुष्टताम् ।
खलस्वभावं भवितव्यतां तथा चकार सर्वं किल शूद्रको नृपः ॥ ७ ॥

( परिक्रम्यावलोक्य च ) अये, शून्येयमस्मत्संगीतशाला, क्व नु गताः कुशीलवा भविष्यन्ति । ( विचिन्त्य ) , ज्ञातम्;

शून्यमपुत्रस्य गृहं चिरशून्यं नास्ति यस्य सन्मित्रम् ।
मूर्खस्य दिशः शून्याः सर्वं शून्यं दरिद्रस्य ॥ ८ ॥

कृतं च संगीतकं मया । अनेन चिरसंगीतोपासनेन ग्रीष्मसमये प्रचण्डदिनकरकिरणोच्छुष्कपुष्करबीजमिव प्रचलिततारके क्षुधा ममाक्षिणी खटखटायेते । तद्यावद्गृहिणीमाहूय पृच्छामि, अस्ति किंचित्प्रातराशो न वेति । एषोऽस्मि भोः, कार्यवशात्प्रयोगवशाच्च प्राकृतभाषी संवृत्तः । अविद अविद भोः ! चिरसंगीदोवासणेण सुक्खपोक्खरणालाईं विअ मे बुभुक्खाए मिलाणाइं अंगाइं । ता जाव गेहं गदुअ जाणामि, अस्थि किं पि कुडुंबिणीए उववादिदं ण वेत्ति । (परिक्रम्यावलोक्य च ) एदं तं अम्हाणं गेहं, ता पविसामि । ( प्रविश्यावलोक्य च ) हीमाणहे,


दावस्तिद्वयानुषङ्गः ॥ ६ ॥ [तयोरिति ।] नयो नीतिस्तस्य प्रचारो व्यवहारस्तं नयप्रचारम् । स्वहितं व्यवहारः ॥ ७ ॥ [ शून्यमिति ।] चिरशून्यमिति कर्म- धारयः । चिरं दीर्घः कालो निरवधिः समयः । शून्यमभिमतकार्यरहितम् । सन्मि- त्रस्य हि ससहायत्वेन कार्यनिष्पत्तेः; सदा पूर्ण इव समयोऽवभासते ॥ ८ ॥ खडित्यव्यक्तानुकरणम् । संगीतकेन चक्षुषी खटखटायेते इत्यसंबद्धप्रलापेन भाविनः शकारासंबद्धभाषणस्य सूचनम् । प्रातराशः कल्यभोजनम् । कार्यवशात् प्रयोग- वशाच्चेति। कार्यं बोध्यायाः स्त्रियो झटिति ज्ञानम् । यदुच्यते--स्त्रीषु नाप्रा- कृतं वदेत्' इति सुकुमारलेन सुप्रयोगत्वं प्राकृतस्य । यदुक्तम्-पुरिसा सक्वअजप्पा पाउअगुंफो वि होई सुउमारो । तथा षष्ठेऽङ्के प्रवणविपर्यासे वीर- कचन्दनकृयोः कलहे संभ्रमागतवचनसंवरणार्थं भाषाव्यत्यासाच्चन्दनकस्य पाठः


टिप्प०-1 'पुरुषाः सकृज्जल्पाः प्राकृतगुम्फोऽपि भवति सुकुमारः' इति च्छाया