प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११३
चतुर्थोऽङ्कः

 शर्विलक–साधु प्रिये ! साधुः अस्मञ्चित्तसदृशमभिहितम् । ( चेटमुद्दिश्य ) भद्र ! जानीषे रेभिलस्य सार्थवाहस्योदवसितम् ।।

 चेटः--अध ई । [ अथ किम् । ]

 शर्विलकः–तत्र प्रापय प्रियाम् ।

 चैटः–जं अज्जो आणवेदि। [थदार्य आज्ञापयति ।]

 मदनिका-जधा अजउत्तो भणादि, अप्पमतेण दाव अज्जउत्तेण होदव्वं । [ यथार्यपुत्रो भणति, अप्रमतेने तावदार्यपुत्रेण भवितव्यम्।]

( इति निष्क्रान्तः)

 शर्विलकः--अहमिदानीं

झातीन्विटा स्वभुजविक्रमलब्धवर्णान्
राजापमान कुपितांश्च नरेन्द्रभृत्यान् ।
उत्तेजयामि सुहृदः परिमोक्षणाय
यौगन्धरायण इवोदयनस्य राज्ञः ॥ २६ ॥

अपि च,-

प्रियसुहृदमकारणे गृहीतं
रिपुर्मिरसाधुभिराहितात्मशकैः ।
सरभसमभिपत्य मोचयामि
स्थितमिव राहुमुखे शशाङ्कबिम्बम् ॥ २७ ॥

( इति निष्क्रान्तः)

( प्रविश्य )

 चेटः–अज्जए ! दिद्विआ वढुसि । अज्ज़जारुदत्तस्स सआसादो बम्हणो आअदो । [आयें ! विष्ट्या वर्धसे । आर्यचारुदत्तस्य सकाशाद्राह्मण आगतः ।]


गृहम् ॥ अतीनिति ॥ २६ ॥ प्रियेति ॥ २७ ॥ बन्धुलेन ।


टिप्प०--- चारुदतगृहमिति भावः । कथानकमिदं छहत्कथादौ वतिं वरीवति । मृ॰ ४