प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११४
मृच्छकटिके

 वसन्तसेना-—अहो, रमणीअदा अज दिवसस्स । ता इले ! सादरं बंधुलेण समं पवेसेहि ण । | अहो, रमणीयताथ दिव- सस्य । तच्छेटि! सादरं बन्धुलेन समं प्रवेशयैनम् ।]

 चेटी–जे अज्ञआ आणवेदि। [यदार्याज्ञापयति ।]( इति निष्क्रान्ता)

( विदूषको बन्धुलेन सह प्रविशति )


 विदुषकः-----ही ही भो, तवचरणकिलेसविणिजिदेण रक्खस- राआ रावणो पुप्फकेण विमाणेण गच्छदि । अहं उण बम्हणो अकिदतवचरणकिलेसो वि औरणारीजणेण गच्छामि । [आश्चर्यं भोः, तपश्चरणकेशविनिर्जितेन राक्षसराजो रावणः पुष्पकेण विमानेन गच्छति । अहं पुनर्बाह्मणोऽकृततपश्चरणक्लेशोऽपि नरनारीजनेन गच्छामि ।]

 चैदी–पेक्खदु अज्जो अम्हकेरकं गेहदुआरं । [प्रेक्षतामार्योऽस- दीयं गेहद्वारम् ।]

 विदूषकः----{ अवलोक्य, सविस्मयम् ) अहो सलिलसितमजिद- किदहरिदोवलेवणस्स विविहसुअंधिकुसुमोवहारचित्तलिहिदभूमिभाअस्स गणतलाअलोअणकोदूहलदूरुण्णामिदसीसस्स दोलाअमाणावलंबिदैरा-


अत्रैवाङ्के पश्चम प्रकोष्ठके ‘परगृहललिताः' (४।२८) इत्यादि बन्धुललक्षणं करि- म्यते । 'ही ही भो' इति विस्मये । तपश्चरणक्लेशबिनिर्जितेन स्वाधीनेन । पुष्प- केण विमानविशेषेण । अकृततपश्चरणकेचेः । नरयुका नारी नरनारी सोद्वाहिका यस्य । पुष्पकमपि सा नरनारी सीतारूपा उद्वाहनीया यस्यैशम् । शब्दच्छलेन साम्यम् ॥ अहो वसन्तसेनाभवनद्वारस्य सश्रीकता । किंभूतस्य ? । सलिलसिक- मार्जितकृतहरितोपलेपनस्य । कृतगोमयोपलेपनस्येत्यर्थात् । तथा विविधसुगन्धि- कुसुमोपहारचित्रलिखितभूमिभागस्य । गगनतलावलोकनकौतूहलदूरोझा मित- शीर्षस्य । उच्छ्रायप्रकर्ष परमेतत् । दोलायमानावलम्बितैरावणस्तभ्रमागतमल्ली- टिप्प०-1 विदुषकोऽयं मैत्रेय एवं रक्षाबल दातुमागत इति शेयम् ।