पृष्ठम्:मृच्छकटिकम्.pdf/१२३

पुटमेतत् सुपुष्टितम्
११५
चतुर्थोऽङ्कः

वणहत्थब्भमाइदमल्लिआदामगुणालंकिदस्स समुच्छिददंतिदंततोरणावभासिदस्स महारअणोवराओवसोहिणा पवणबलंदोलणाललंतचंचलग्गहत्थेण 'इदो एहि' त्ति वाहरंतेण विअ मं सोहग्गपडाआणिवहेणोवसोहिदस्स तोरणधरणत्थंभवेदिअणिक्खित्तसमुल्लसंतहरिदचूदपल्लवललामफटिहमंगलकलसाभिरामोहअपास्सस्स महासुरवक्खत्थलदुब्भेज्जवज्जणिरंतरपडिबद्धकणअकवाडस्स दुग्गदजणमणोरहाआसकरस्स वसंतसेणाभवणदुआरस्स सस्सिरीअदा । जं सच्चं मज्झत्थस्स वि जणस्स बलादिट्टिं आआरेदि । [ अहो सलिलसिक्तमार्जितकृतहरितोपलेपनस्य विविधसुगन्धिकुसुमोपहारचित्रलिखितभूमिभागस्य गगनतलावलोकनकौतूहलदूरोन्नामितशीर्षस्य दोलायमानावलम्बितैरावणहस्तभ्रमागतमल्लिकादामगुणालंकृतस्य समुच्छ्रितदन्तिदन्ततोरणावभासितस्य महारत्नोपरागोपशोभिना पवनबलान्दोलनाललच्चञ्चलाग्रहस्तेन 'इत एहि' इति व्याहरतेव मां सौभाग्यपताकानिवहेनोपशोभितस्य तोरणधरणस्तम्भवेदिकानिक्षिप्तसमुल्लसद्धरितचूतपल्लवललामस्फटिकमङ्गलकलशाभिरामोभयपार्श्वस्य महासुरवक्षःस्थलदुर्भेद्यवज्रनिरन्तरप्रतिबद्धकनककपाटस्य दुर्गतजनमनोरथायासकरस्य वसन्तसेनाभवनद्वारस्य सश्रीकता। यत्सत्यं मध्यस्थस्यापि जनस्य बलादृृष्टिमाकारयति ।]

 चेटी-एदु एदु । इमं पढमं पओट्ठं पविसदु अज्जो । [एत्वेतु, इमं प्रथमं प्रकोष्ठं प्रविशत्वार्यः ।]

 विदूषकः--( प्रविश्यावलोक्य च )ही ही भो, इधो वि पढमे पओट्ठे ससिसंखमुणालसच्छाहाओ विणिहिदचुण्णमुट्ठिपांडुराओ विविहरअण-


दामगुणालंकृतस्य । समुच्छ्रितदन्तिदन्ततोरणावभासितस्य । महारत्नोपरागोपशोभिना पवनबलान्दोलनाललच्चञ्चलाग्रहस्तेन 'इत एहि' इति व्याहतेव मां सौभाग्यपताकानिवहेनोपशोभितस्य । तोरणधरणस्तम्भवेदिकानिक्षिप्तसमुल्लसद्धरितचूतपल्लवललामस्फटिकमङ्गलकलशाभिरामोभयपार्श्वस्य । महासुरवक्षस्तटदुर्भेद्यवज्ररत्ननिरन्तरप्रतिबद्धकनककपाटस्य । दुर्गतजनमनोरथायासकरस्य । यत्सत्यं मध्यस्थस्यापि जनस्य बलाद्दृष्टिमाकारयत्याह्वयति ॥ प्रथमप्रकोष्ठ-