पृष्ठम्:मृच्छकटिकम्.pdf/१२४

पुटमेतत् सुपुष्टितम्
११४
मृच्छकटिके

पडिबद्धकंचणसोवाणसोहिदाओ पासादपंतिओ ओलंबिदमुत्तादामेहिं फटिहवादाअणमुहचंदेहिं णिज्झाअंती विअ उज्जइणिं । सोत्तिओ विअ सुहोवविट्टो णिद्दाअदि दोवारिओ । सदहिणा कलमोदणेण पलोहिदा ण भक्खंति वायसा बलिं सुधासवण्णदाए । आदिसदु भोदी । [ आश्चर्यं भोः, अत्रापि प्रथमे प्रकोष्ठे शशिशङ्खमृणालसच्छाया विनिहितचूर्णमुष्टिपाण्डुरा विविधरत्नप्रतिबद्धकाञ्चनसोपानशोभिताः प्रासादपङ्क्तयोऽवलम्बितमुक्तादामभिः स्फटिकवातायनमुखचन्द्रैर्निर्ध्यायन्तीवोज्जयिनीम् । श्रोत्रिय इव सुखोपविष्टो निद्राति दौवारिकः । सदघ्ना कलमोदनेन प्रलोभिता न भक्षयन्ति वायसा बलिं सुधासवर्णतया । आदिशतु भवती । ]

 चेटी एदु एदु अज्जो । इमं दुदिअं पओट्ठं पविसदु अज्जो । [एत्वेत्वार्यः । इमं द्वितीयं प्रकोष्ठं प्रविशत्वार्यः ।]

 विदूषकः--( प्रविश्यावलोक्य च ) ही ही भो, इदो वि दुदिए पओट्ठे पज्जंतोवणीदजवसवुसकवलसुपुट्टा तेलब्भंगिदविसाणा बद्धा पवहणबइल्ला । अअं अण्णदरो अवमाणिदो विअ कुलीणो दीहं णीससदि सेरिहो । इदो अ अवणीदजुज्झस्स मल्लस्स विअ मद्दीअदि गीवा सेसस्स । इदो इदो अवराणं अस्साणं केसकप्पणा करीअदि । अअं अवरो पाडच्चरो विअ दिढबद्धो मंदुराए साहामिओ ।


वर्णनम्--शशिशङ्खमृणालस्वच्छाभाः विनिहतचूर्णमुष्टिपाण्डुराः विविधरत्नप्रतिबद्धकाञ्चनसोपानशोभिताः प्रासादपङ्क्तयः अवलम्बितमुक्ताफलदामभिः स्फटिकवातायनमुखचन्द्रैर्निर्ध्यायन्तीवोज्जयिनीम् । श्रोत्रिय इव सुखोपविष्टो निद्राति दौवारिकः । सदघ्ना कलमोदनेन प्रलोभिता न भक्षयन्ति वायसा बलिं सुधासवर्णतया ॥ इहापि द्वितीयप्रकोष्ठके पर्यन्तोपनीतयवसबुसकवलसुपृष्टास्तैलाभ्यक्तविषाणा बद्धाः प्रवहणबलीवर्दाः । अयमपरोऽपमानित इव कुलीनो दीर्घं निःश्वसिति सैरिभो महिषः । इतोऽपनीतयुद्धस्य मल्लस्येव मृद्यते ग्रीवा मेषस्य । इतोऽपरेषामश्वानां केशकल्पना क्रियते । अयमपरः पाट-