पृष्ठम्:मृच्छकटिकम्.pdf/१२५

पुटमेतत् सुपुष्टितम्
११७
चतुर्थोऽङ्कः

( अन्यतोऽवलोक्य च ) इदो अ कुरच्चुअतेल्लमिस्सं पिंडं हत्थी पडिच्छावीअदि मेत्थपुरिसेहिं । आदिसदु भोदी । [आश्चर्यं भोः, इहापि द्वितीये प्रकोष्ठे पर्यन्तोपनीतयवसबुकवलसुपुष्टस्तैलाभ्यक्तविषाणा बद्धाः प्रवहणबलीवर्दाः । अयमन्यतरोऽवमानित इस कुलीनो दीर्घं निःश्वसिति सैरिभः । इतश्चापनीतयुद्धस्य मल्लस्येव मर्द्यते ग्रीवा मेषस्य । इत इतोऽपरेषामश्वानां केशकल्पना क्रियते । अयमपरः पाटच्चर इव दृढबद्धो मन्दुरायां शाखामृगः । इतश्च कूरच्युततैलमिश्रं पिण्डं हस्ती प्रतिग्राह्यते मात्रपुरुषैः । आदिशतु भवती ।]

 चेटी–एदु एदु अज्जो । इमं तइअं पओट्ठं पविसदु अज्जो । [ एत्वेत्वार्यः । इमं तृतीयं प्रकोष्ठं प्रविशत्वार्यः ।]

 विदूषकः---( प्रविश्य, दृष्ट्वा च ) ही ही भो, इदो वि तइए पओट्ठे इमाइं दाव कुलउत्तजणोववेसणणिमित्तं विरचिदाइं आसणाइं । अद्धवाचिदो पासअपीठे चिट्ठइ पोत्थओ । एसो अ साहीणमणिमअसारिआसहिदो पासअपीठो । इमे अ अवरे मअणसंधिविग्गहचदुरा विविहवण्णिआविलित्तचित्तफलअग्गहत्था इदो तदो परिब्भमति गणिआ वुड्ढविडा अ । आदिसदु भोदी । [आश्चर्यं भोः । इहापि तृतीये प्रकोष्ठे इमानि तावत्कुलपुत्रजनोपवेशननिमित्तं विरचितान्यासनानि । अर्धवाचितं पाशकपीठे तिष्ठति पुस्तकम् । एतच्च स्वाधी-


च्चर इव चौर इव दृढबद्धो मन्दुरायां शाखामृगः । इतोऽपि भक्ततैलघृतमिश्रपिण्डं ग्राह्यते हस्ती हस्तिपकपुरुषैः ॥ इहापि तृतीये प्रकोष्ठे इमानि तावत्कुलपुत्रजनोपवेशननिमित्तं विरचितान्यासनानि । अर्धपठितस्तिष्ठति पुस्तकः । कामशास्त्रस्येत्यर्थात् । स्वाधीनमणिमयशारीसहितं पाशकपीठम् । 'सारितम्' इति पाठे प्रसारितमित्यर्थः । 'स्वाधीनमकृत्रिमम्' इति प्राचीनटीका । इमे चापरे मदनसंधिविग्रहचतुरा विविधवर्णिकावलिप्तं चित्रफलकं वहमाना इतस्ततः परिभ्रमन्ति गणिका वृद्धविटाश्च ॥ इहापि चतुर्थे प्रकोष्ठे युवतिकरताडिता जलधरा इव गम्भीरधीरं नदन्ति मुरजाः । क्षीणपुण्या इव गगनात्तारा इव