पृष्ठम्:मृच्छकटिकम्.pdf/१२६

पुटमेतत् सुपुष्टितम्
११२
मृच्छकटिके

नमणिमयसारिकासहितं पाशकपीठम् । इमे चापरे मदनसंधिविग्रहचतुरा विविधवर्णिकाविलिप्तचित्रफलकाग्रहस्ता इतस्ततः परिभ्रमन्ति गणिका वृद्धविटाश्च । आदिशतु भवती । ]

 चेटी-एदु एदु अज्जो । इमं चउट्ठं पओट्ठं पविसदु अज्जो । [ एत्वेत्वार्यः । इमं चतुर्थं प्रकोष्ठं प्रविशत्वार्यः ।]

 विदूषकः—( प्रविश्यावलोक्य च ) ही ही भो, इदो वि चउट्ठे पओट्ठे जुवदिकरताडिदा जलधरा विअ गंभीरं णदंति मुदंगा, हीणपुण्णाओ विअ गअणादो तारआओ णिवडंति कंसतालआ, महुअरविरुअं विअ महुरं वज्जदि वंसो । इअं अवरा ईसाप्पणअकुविदकामिणी विअ अंकारोविदा कररुहपरामरिसेण सारिज्जदि वीणा । इमाओ अवराओ कुसुमरसमत्ताओ विअ महुअरिओ अदिमहुरं पगीदाओ गणिआदारिआओ णच्चिअंति, णट्टअं पठिअंति, ससिंगारओ । ओवग्गिदा गवक्खेसु वादं गेण्हंति सलिलगग्गरीओ। आदिसदु भोदी । [ आश्चर्यं भोः, इहापि चतुर्थे प्रकोष्ठे युवतिकरताडिता जलधरा इव गम्भीरं नदन्ति मृदङ्गाः, क्षीणपुण्या इव गगनात्तारका निपतन्ति कांस्यतालाः, मधुकरविरुतमिव मधुरं वाद्यते वंशः । इयमपरेर्ष्याप्रणयकुपितकामिनीवाङ्कारोपिता कररुहपरामर्शेन सार्यते वीणा ।


निपतन्ति कांस्यतालाः । वैदग्ध्यवादनादेव निपातः । मधुकराभिरुतमिव मधुरं वाद्यते वंशः । इयमपरा प्रणयकुपिता कामिनीवाङ्कारोपिता कररुहपरामर्शेन सार्यते वीणा । इमा अपराः कुसुमरसमत्ता इव मधुकर्योऽतिमधुरं प्रगीताः ॥ गणिकादारिका वेश्याविशेषा इति गुणपताकायामुक्तम् । नाट्यते नाट्यं । पठ्यते सशृङ्गारम् । अवलम्बिता गवाक्षेषु वातं गृह्णन्ति सलिलगर्गर्यः । एतच्च जनानां पानार्थम् ॥ इहापि पञ्चमप्रकोष्ठे । अयमपि दरिद्रजनलोभोत्पादनकरो हिङ्गुतैलगन्ध आ समताद्धरति । विविधसुरभिधूमोद्गारैर्नित्यं संताप्यमाने निश्वसितीव महानसं