पृष्ठम्:मृच्छकटिकम्.pdf/१३

पुटमेतत् सुपुष्टितम्
प्रथमोऽङ्कः

किं णु खु अम्हाणं गेहे अवरं विअ संविहाण वट्टदि । आआमितंडुलोदअप्पवाहा रच्छा, लोहकडाहपरिअत्तणकसणसारा किदविसेस विअ जुअदी अहिअदरै सोहदि भूमी । सिणिद्धगंधेण उद्दीविअंती विअअघिगं बाधेदि में बुभुक्खा । ता किं पुव्वविढत्तं णिहाणं उपरणं भवे । आदु अहं जेव्व बुभुक्खादो ओदाणमअं जीअलोअं पेक्खामि । णस्थि किल पादरासो अम्हाणं गेहे । पाणञ्चअं बाधेदि मे बुभुक्खा । इध सव्वं णवं विअ संविदाणं वट्टदि। एक्का वण्णअं पीसेदि, अवरा सुमणाओ गुंफेदि। ( विचिन्त्य ) किं ण्णेदं । भोदु । कुडुंबिणि सद्दाविअ परमत्थं जाणिस्सं । ( नेपथ्याभिमुखमवलोक्य । ) अज्जे । इदो दाव । अविद, अविद भो; ! चिरसंगीतोपासनेन शुष्कपुष्करनालानीव में बुभुक्षया म्लानान्यङ्गानि । तद्यावद्गृहं गत्वा जानामि, अस्ति किमपि कुटुम्बिन्या उपपादितं न वेति । इदं तदस्माकं गृहम् , तत्प्रविशामि । आश्चर्यम् । किं नु खल्वस्माकं गृहेऽपरमिव संविधानकं वर्तते । आयामितण्डुलोदकप्रवाहा रथ्या लोहकटाहपरिवर्तनकृष्णसारा कृतविशेषकेव युवत्यधिकतरं शोभते भूमिः । स्निग्धगन्धेनोद्दीप्यमानेवाधिकं बाधते मां बुभुक्षा । तत्किं पूर्वार्जितं निधानमुत्पनं भवेत् । अथ--


संस्कृतेन । तथा पञ्चमाङ्के दुर्दिने कार्यवशाद्वसन्तसेनायाः श्लोकपाठः संस्कृतेन । चारुदत्तस्य दारिद्र्यात् वर्णनासूचनयोग्यप्राकृतपरिग्रहः (?) । दाहुः---‘कार्यतश्चोत्तमा दीनां कार्यों भाषाव्यतिक्रमः' इति । एतत्सर्वमनेन सुचितमिति । अविद अविदेति निवेदे;कष्टं कष्टमित्यर्थः । 'अदृष्टाश्रुतसंप्राप्तावविदाविदभोः पदम्' इति च प्राञ्चः। मिलणाइ म्लानानि । हीमाणहे विस्मये । किं नु खल्चस्माकं गृहेऽन्यदिव संवि- धानकं वर्तते । आयामो दीर्घस्तण्डुलप्रक्षालनजलप्रवाहो यत्र तादृशी रथ्या । लोहस्य कटाहो भाजनविशेषः, तत्परिवर्तनेन मार्जनेन कृष्णसारी कृततिलका युवतिवद्भूमिरदिकं शोभते । कृष्णसारा भूमिरित्यनेन चतुर्थाङ्के भवनकोष्ठकस्य विशेषसूचनम् । सिणिद्धगंधेण स्निग्धगन्धेन । उद्दीविअंती विअ उद्दीप्यमानेव । तत्किं पूर्वार्जितं निधानं बहुसंख्यं धनमुत्पन्नं भवेत् । आदु अथवेत्यर्थः । अह- मेव बुभुक्षातोऽन्नमयम् । पाठान्तरे आदनमयम् । जीवलोकं संसारं पश्यामि । नास्ति किल रातराशोऽस्माकं गृहे । प्राणाधिकं प्राणेष्वधिकं यथा स्यादेवम् ।