पृष्ठम्:मृच्छकटिकम्.pdf/१३६

पुटमेतत् सुपुष्टितम्
१२८
मृच्छकटिके

 विदूषकः---सुणादु मोदी । तत्तभवं चारुदत्तो सीसे अंजलिं कटुअ भोदिं विण्णवेदि । [ शृणोतु भवती । तत्रभवश्चारुदत्तः शीर्षेऽञ्जलिं कृत्वा भवतीं विज्ञापयति । ]

 वसन्तसेना--( अञ्जलिं बद्ध्वा ) किमाज्ञापयति ।।

 विदूषकः-मए तं सुवण्णभंडअं विस्संभादो अत्तणकेरकेत्ति कदुअ जूदे हारिदं । सो अ सहिओ राअवत्थहारी ण जाणीअदि कहिं गदो त्ति । [मया तत्सुवर्णभाण्डं विश्रम्भादात्मीयमिति कृत्वा द्यूते हारितम् । स च सभिको राजवार्ताहारी न ज्ञायते कुत्र गत इति ।]

 चेटी--अज्जए ! दिट्टिआ वड्ढसि । अज्जो जूदिअरो संवुत्तो । [आर्य! दिष्ट्या वर्धसे । आर्यो द्यूतकरः संवृत्तः ।]

 वसन्तसेना--( स्वगतम् ) कधं चोरेण अवहिदं पि सोंडीर- दाए जूदे हारिदं त्ति भणादि ? । अदो जेव कामीअदि । [कथं चौरेणापहृतमपि शौण्डीरतया द्यूते हारितमिति भणति ? । अत एव काम्यते ।

 विदूषकः----ता तस्स कारणादो गेण्हदु भोदी इमं रअणावलिं । [ तत्तस्य कारणाद्गृह्णातु भवतीमां रत्नावलीम् ।।

 वसन्तसेना-( आत्मगतम् ) किं दंसेमि तं अलंकारअं । ( विचिन्त्य ) अधवा ण दाव । [ किं दर्शयामि तमलंकारम् ? । अथवा न तावत् ।]

 विदूषकः---किं दाव ण गेण्हादि भोदी एवं रअणावलिं ? । [ किं तावन्न गृह्णाति भवतीमां रत्नावलीम् ? ।]

 वसन्तसेना---( विहस्य, सखीमुखं पश्यन्ती ) मित्तेअ ! कधं ण गेण्हीस्सं रअणावलिं ? । ( इति गृहीत्वा पार्श्वे स्थापयति,स्वगतम् ) कधं झीणकुसुमादो वि सहआरपादवादो मअरंदबिंदओ णिवडंति ? (प्रकाशम् )अज्ज ! विण्णवेहि तं जूदिअरं मम वअणेण अज्जचारुदत्तं---


छात्रस्य इसितमिति यथा ॥ अध ईं अथ किम् । अनुमतौ ॥ राअवत्थहारी