पुटमेतत् सुपुष्टितम्
१२९
चतुर्थोऽङ्कः

'अहं पि पदोसे अज्जं पेक्खिदं आअच्छामि' त्ति । [ मैत्रेय ! कथं न ग्रहीष्यामि रत्नावलीम् ? । कथं हीनकुसुमादपि सहकारपादपान्मकरन्दबिन्दवो निपतन्ति ? । आर्य ! विज्ञापय तं द्यूतकरं मम वचनेनार्यचारुदत्तम्- अहमपि प्रदोष आर्यं प्रेक्षितुमागच्छामि' इति ।] विदूषकः-( स्वगतम् ) किं अण्णं तर्हि गदुअ गेण्हिस्सदि?। { प्रकाशम् ) भोदि । भणामि---(स्वगतम् ) णिअत्तीअदु इमादो गणिआ- पसंगादो' त्ति । [ किमन्यत्तत्र गत्वा ग्रहीष्यति ? । भवति ! भणामि--- निवर्ततामस्माद्गणिकाप्रसङ्गात्' इति ।

( इति निष्क्रान्तः )

 वसन्तसेना--हञ्जे ! गेण्ह एदं अलंकारअं । चारुदत्तं अहिर- मिदुं गच्छम्ह । [ चेटि ! गृहाणैतमलंकारम् । चारुदत्तमभिरन्तुं गच्छावः । ]

 चेटी--अज्जए ! पेक्ख पेक्ख । उण्णमदि अकालदुद्दिणं । [ आयें ! पश्य पश्य, उन्नमत्यकालदुर्दिनम् ।।

 वसन्तसेना--

उदयन्तु नाम मेघा भवतु निशा वर्षमविरतं पततु ।
गणयामि नैव सर्वं दयिताभिमुखेन हृदयेन ॥ ३३ ॥

हञ्जे ! हारं गेण्हिअ लहुं आअच्छ। [चेटि ! हारं गृहीत्वा शीघ्रमागच्छ ।]

( इति निष्क्रान्ताः सर्वे )

मदनिकाशर्विलको नाम चतुर्थोऽङ्कः ।


वार्तिकः । सोंडीरदाए शौण्डीर्येणाशयमह्त्त्वेन । भोदि भवति । भणामित्यनन्तरं सहासनाटकसूत्रं परितमिव तथा कृत्वा बोद्धव्यम् । (४) उदयन्त्विति ॥ ३३ ॥

इति मदनिकाप्रदानं नाम चतुर्थोऽङ्कः ॥

| टिप्प०---] अनेन ‘उदयन्तु नाम मेघा' इति चाग्रिमश्लोकेन चाव्यवहितमेव पञ्चमाङ्कादौ वर्षर्तुवर्णनावतारः सूच्यते । स चायं वर्षर्तुवर्णनावतारः पूर्वं "पातु वो नीलकण्ठस्य कण्ठः श्यामांबुदोपमः ।' इति नान्द्यामेव ग्रन्थकृता सूचित इत्यवसेयम् । 2 श्लोकेऽस्मिन् वसन्तसेनायाचारूदत्तविषयकोऽतिशयितोऽनुरागः स्फुटं प्रतीयते ।

मृ० १