प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३०
मृच्छकटिके

पञ्चमोऽङ्कः

( ततः प्रविशत्यासनस्थः सोत्कण्ठश्चारुदत्तः )

 चारुदत्तः–( ऊर्ध्वमवलोक्य ) उनमेश्यकालदुर्दिनम् । यदेतत्

आलोकितं गृहशिखण्डिभिरुत्कलापै-
हसैययासुभिरपाकृतमुन्मनस्कः ।
अकालिक सपदि दुर्दिनमन्तरीक्ष-
मुत्कण्ठितस्य हृदयं च समं रुणद्धि ॥ १।।

अपि च,-

मेघो जलाईमहिषोदरभृङ्गनीलो
विद्युन्प्रभारचितपीनपटोत्तरीयः।
आभाति संहतबलाकगृहीतशङ्खः
ख केशवोऽपर इवाक्रमितुं प्रवृत्तः ॥ २ ॥


पूर्वाङ्गेऽङ्कावतारेणैव सूचितस्य प्रकरणनायकस्य प्रवेशः । तथा चोक्तम् प्रवेशधूलिका चैव तथा विष्कम्भोऽपरः । अङ्कावतारोऽङ्कमुखमपक्षे- पपञ्चकम् ॥' इति । प्रवेशयतीति प्रवेशः । पचायच् । प्रवेशको चुलत उच्यते । अधमपात्र प्रयोज्यः प्रवेशकः । तदुक्तम्----‘भृत्य वर्गकथावचे कर्तव्यस्तु प्रवेशकः । अन्तर्जवनिकासंस्थेस्तथा मागधबन्दिभिः ॥ अपक्षेपणं यत्र क्रियते स हि चुलिको । विष्कम्भस्तु द्विधा सोऽयं शुद्धः संकीर्ण एव च । शुद्धो मध्यमपात्रेण संकीर्णो मध्यमाधमैः ॥” इति । आलोकित मिति । अपाकृतं निरस्तम् । अनभिनन्दितमिति यावत् ॥ १ ॥ मेघ इति । 'बलाक'शब्दः पुंलिङ्गोऽप्येषां टिप्प,---1 अत्राहे तावत् अर समाप्त वर्षतुवर्णने चारुदत्तन वसन्तसेनये. विटेन च यथायथं क्रियते । तदिदं वसन्तसेना-चारुदत्तय रन्योन्यानुरागोद्दीपनविभाव- त्वेनावतरती ति बोध्यम् । एतद्वियति दृश्यमानमकालिकं यइदिनं मेघाच्छन्न दिने तदवलोकितम्, तेन विरहिणी चेनस: कातरत्वं प्रियमिलनौत्सुक्यं च भवतीत्या- शयः। 2 जलाद्वैमहिषस्योदरं भृङ्गश्च तद्वझीलः । गज़महिषादीनां स्वतः श्यामत्वेऽपि जलाईतायामतिइयामत्वमुदरप्रदेशे चधिकतरमिति द्वष्टम्यम् । ॐ वामनावतारे श्रीहति

येथा गगनमाक्रमितुं प्रवृत्तः सन् रराज तन्मेध इति पूर्णोपमालंकारः ।।