पुटमेतत् सुपुष्टितम्
१३४
मृच्छकटिके

मुपहसितः । तदहं ब्राह्मणो भूत्वेदानीं भवन्तं शीर्षेण पतित्वा विज्ञापयामि निवर्यतामात्मास्माद्वहुप्रत्यवायाद्वणिकाप्रसङ्गात्' । गणिका नाम पादुका- न्तरप्रविष्टेव लेष्टुका दुःखेन पुनर्निराक्रियते । अपि ध, भो वयस्य ! गणिका, हस्ती, कायस्थो भिक्षुः, चाटो रासभश्च यत्रैते निवसन्ति तत्र दुष्टा अपि न जायन्ते ।।

 चारुदत्तः-वयस्य ! अलमिदानीं सर्वं परिवादमुक्त्वा । अवस्थयैवास्मि निवारितः । पश्य

वेगं करोति तुरगस्त्वरितं प्रयातुं
प्राणव्ययान्न चरणास्तु तथा वहन्ति ।
सर्वत्र यान्ति पुरुषस्य चलाः स्वभावाः
खिन्नास्ततो हृदयमेव पुनर्विशन्ति ॥ ८॥

अपि च, वयस्य ।

यस्यार्थास्तस्य सा कान्ता धनहार्यो ह्यसौ जनः ।

(स्वगतम् ) न गुणहार्यो ह्यसौ जनः । (प्रकाशम् )

वयमर्थैः परित्यक्ता ननु त्यक्तैव सा मया ॥ ९ ॥

 विदूषकः--(अधोऽवलोक्य, स्वगतम् ) जधा एसो उद्धं पेक्खिअ दीहं णिस्ससदि, तधा तक्केमि मए विणिवारिअंतस्स अधिअदरं वड्ढिदा से उक्कंठा। ता सुठ्टु खु एवं वुच्चदि--'कामो वामो' त्ति । ( प्रकाशम् ) भो वअस्स ! भणिदं अ ताए---‘भणेहि चारुदत्तं----अज्ज पओसे मए एत्थ आअंतव्व' त्ति । तो तक्केमि रअणावलीए अपरितुट्टा अवरं मग्गिदुं आअमिस्सदि त्ति । [ यथैष ऊर्ध्व प्रेक्ष्य दीर्घं निःश्वसिति, तथा तर्कयामि मया विनिवार्षमाणस्याधिकतरं वृद्धास्योत्कण्ठा । तत्सुष्ठु खल्वेवमुच्यते-“कामो वामः' इति । भो वयस्य ! भणितं च तया-‘भण चारुदत्तम्


रितं मुखं कृत्वा । गणिका हस्ती कायस्थो भिक्षुश्वाटौ ( टो) क्षुद्र विषयभोक्तारासभो गर्दभः ॥ वेगमिति ॥८॥ यस्येति ।। ९ ।। अवेध माणहे इति ।