पृष्ठम्:मृच्छकटिकम्.pdf/१४४

पुटमेतत् सुपुष्टितम्
१३६
मृच्छकटिके

आज्ञप्तोऽस्म्भार्यया वसन्तसेनया---'कुम्भीलक! गच्छ त्वम् । ममागमन- मार्यचारुदत्तस्य निवेदय' इति । तद्यावदार्यवारुदत्तस्य गेहं गच्छामि । एष चारुदत्तो वृक्षवाटिकायां तिष्ठति । एषोऽपि स दुष्टबटुकः तावदुपसर्पामि कथमाच्छादितं द्वारं वृक्षवाटिकायाः । भवतु, एतस्य दुष्टबटुकस्य संज्ञां ददामि ।]

 विदूषकः--अए, को दाणिं एसो पारवेट्टिदं विअ कइत्थं मं लोट्टकेहिं ताडेदि १ । [ अये ! क इदानीमेष प्राकारवेष्टितमिव कपित्थं मां लोष्टकैस्ताडयति  ? ।]

 चारुदत्तः---आरामप्रसादवेदिकायां क्रीडद्भिः पारावतैः पातितं भवेत् ।

 विदूषकः–दासीर पुत्त दुट्टपाररावअ ! चिट्ट चिट्ठ । जाव एदिणा दंडकट्ठेण सुपक्कं विअ चूअफलं इमादो पासादादो भूमीए पाडइस्सं । [दास्याःपुत्र दुष्टपारावत! तिष्ठ तिष्ठ यावदेतेन दण्डकाष्ठेने सुपक्वमिव चूत- फलमस्मात्प्रासादात्भूमौ पातयिष्यामि । ] ( इति दण्डकाष्ठमुद्यम्य धावति )

 चारुदत्तः—( यज्ञोपवीतं आकृष्य ) वयस्य ! उपविश । किम- नेन ? । तिष्ठतु दयितासहितस्तपस्वी पारावतः ।।

 चैट-कधं पारावदं पेक्खदि,मं ण पैक्खदि ? । भोदु, अव- राए लोट्टगुडिकाए पुणो वि ताडइस्सं । [ कथं पारावतं पश्यति, मां न पश्यति ? । भवतु, अपरया लोष्टगुटिकया पुनरपि ताडयिष्यामि ।] ( तथा करोति )

 विदूषकः---( दिशोऽवलोक्य ) कधं कुंभीलओ ? । ता जाव उवसप्पामि। ( उपसृत्य, द्वारमुद्घाट्य ) अरे कुंभीलअ !पविश ; साअदं दे। [कथं कुम्भीलकः १ तद्यावदुपसर्पामि । अरे कुम्भीलक ! प्रविश; स्वागतं ते ।]


कस्य संज्ञां ददामि १ ।। कपित्थं फलविशेषः । वृद्धबिंब्बो दुवासू इति यावत् (?)।