पुटमेतत् सुपुष्टितम्
१३८
मृच्छकटिके

 चेटः--( सहासम् ) अले, णहि णहि । [ अरे, नहि नहि ।]

 विदूषकः---(स्वगतम् ) किं दाणि एत्थ कहिस्सं १ । ( विचिन्त्य ) भोदु, चारुदत्तं गदुञ पुच्छिस्सं । ( प्रकाशम् ) अरे, मुहुत्तअं चिट्ठ । (चारुदत्तमुपसृत्य ) भो वअस्स ! पुच्छिस्सं दाव, कस्सि काले चूआ मोलेंति ? [ किमिदानीमत्र कथयिष्यामि ।। भवतु, चारुदतं गत्वा प्रक्ष्या- मि। अरे, मुहूर्तकं तिष्ठ । भो वयस्य ! प्रक्ष्यामि तावत्, कस्मिन्काले चूता मुकुलिता भवन्ति ?।

 चारुदत्तः–मूर्ख ! ! वसन्ते।

 विदूषकः-(चेटमुपगम्य ) मुक्ख ! वसंते । [मूर्ख ! वसन्ते । ]

 चेटः---दुदिअं दे पण्हं दैइ । शुशमिद्धाणं गामाणं का लक्खों कलेदि । [द्वितीयं ते प्रश्नं दास्यामि । सुसमृद्धानां ग्रामाणाम् का रक्षां करोति ? ।]

 विदूषकः--अरे, रच्छा । [ अरे, रथ्या ।

 चेटः-- (सहासम् ) अले, णहि णहि । [ अरे, नहि नहि ।]

 विदूषकः---भोदु, संसए पडिदम्हि । ( विचिन्त्य ) भोदु, चारुदत्तं पुणो वि पुछिस्सं । ( पुनर्निवृत्य चारुदत्तं तथैवोदाहरति ) { भवतु, संशये पतितोऽस्मि । भवतु चारुदत्तं पुनरपि प्रक्ष्यामि।]

 चारुदत्तः——वयस्य ! सेना ।

 विदूषकः-( चेटमुपगम्य ) अरे दासीए पुत्ता 1 सेणा । [अरे दास्याःपुत्र ! सेना ।]

 चेटः---अले दुवे वि एक्काश्शिं कडुअ शिग्धं भणाहि । [ अरे, द्वे अप्येकस्मिन् कृत्वा शीघ्रं भण।]

 विदूषकः–सेणावसंते । [ सेनावसन्ते ।]