प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४१
पञ्चमोऽङ्कः

येषां रवेण सहसोत्पतितैर्मयुरैः।
खं वीज्यते मणिमयैरिव तालवृन्तैः ॥ १३ ॥

अपि च,--

पङ्कक्लिन्नमुखाः पिबन्ति सलिलं धाराहत दर्दुराः
कण्ठं मुञ्चति बर्हिः समदनो नीपः प्रदीपयते ।
संन्यासः कुलदूषणैरिव जनैमैथैर्वृतश्चन्द्रमा
विद्युझीचकुलोद्तेव युवतिनैकत्र संतिष्ठते ॥ १४ ॥

 वसन्तसेना-भाव ! सुड्डु दे भणिदं । [ भाव ! सुष्टु ते भणि- तम् । एषा हि ।

मूढे ! निरन्तरपयोधरया मयैव
कान्तः सहभिरमते यदि किं तवात्र १ ।।
मां गर्जितैरपि मुहुर्वि निवारयन्ती
मार्ग रुणद्धि कुपितेव निशासपत्नी ॥ १५ ॥

 विटः—भवतु एवं तावत् ; उपालभ्यतां तावदियम् ।।

 वसन्तसेना-भाव ! किमनया स्त्रीस्वभावदुर्विदग्धयोपालब्धया ? । पश्यतु भावः।

मेघा वर्षन्तु गर्जन्तु मुञ्चन्त्वशनिमेव वा ।
गणयन्ति न शीतोष्णं रमणाभिमुखाः स्त्रियः ॥ १६ ॥

 विटः---वसन्तसेने ! पश्य पश्य, अयमपरः


गर्जन्सीति ॥ १३ ॥ पति । कण्ठं मुञ्चतीति। ‘कठो गले गलध्वाने' इति कोशः । लावण्ययोगवान् पूर्ण कण्ठं मुन्नतीत्युत्प्रेक्षा (१ ) ॥ १४ ॥ मूडे इति। मूढे इति वसन्तसेनायाः साक्षेपसंबोधनम् । पयोधरो मेघः, स्वनौ च ॥ १५ ॥

दिप्प०---1 अत्र शशक्तिमूलो ध्वनिः ।