पृष्ठम्:मृच्छकटिकम्.pdf/१५

पुटमेतत् सुपुष्टितम्
प्रथमोऽङ्कः

 नटी--( स्वगतम् ) परिहसिस्सं दाव । ( प्रकाशम् ) अज्ज अस्थि आवणे । [ परिहसिष्यामि तावत् । आर्य ! अस्त्यापणे ।]

 सुत्रधारः---( सक्रोधम् ) आः, अणज्जे! एवं ते आसा छिज्जिस्सदि । अभावं अ गमिस्ससि । जं दाणिं अहं वरंडलंबुओ विअ दूरं उक्खिविअ पाडिदो । [ आः अनार्ये ! एवं तवाशा छेत्स्यति । अभावं च गमिष्यसि । यदिदानीमहं वरण्डलम्बुक इव दूरमुत्क्षिप्य पातितः । ]

नटी-- मरिसेदु मरिसेदु अज्जो, परिहासो खु[१] एसो । [ मर्षतु मर्षत्वार्यः, परिहासः खल्वेषः । ]

 सुत्रधारः---ता किं उण इमं णवं विअ संविहाणअं वट्टदि ? । एक्का वण्णअं पीसेदि, अवरा सुमणाओ गुंफेदि, इअं अपंचवणकुसुमोवहारसेहिदा भूमी ।[ तत्किं पुनरिदं नवमिव संविधानकं वर्तते ? । एका वर्णकं पिनष्टि, अपरा सुमनसो गुम्फति, इयं च पञ्चवर्णकुसुमोपहारशोभिता भूमिः ।]

 नटी-- अज्ज उववासो गहिदो । [ आद्योपवासो गृहीतः ।]

 सूत्रधारः-किंणामधेओ अअं उववासो ? । [ किंनामधेयोऽयमुपवासः ? ]


आर्य । अस्त्यापणे वणिग्वीथ्याम् ॥ एवं तवाशा छेत्स्यति । अभावं च गमिष्यसि इत्यनेन अ वसन्तसेनायाः प्रवहणविपर्यासमोट्टनयोः सूचनम् ॥ वरण्डो दीर्घकाष्ठं तस्य लम्बुकस्तत्प्रान्तनिबद्धो मृत्तिकास्थूणः, स हि द्रोण्यां पानीयोद्धारे दूरमुत्थाप्याधः पात्यते । केचिदाहुः----वरण्ड इष्टकागृह उन्नती भूतो दीर्घो भित्तिप्रदेशस्तत्र लम्बुकोऽवयवभूत इष्टकासंघः । सोऽपि हि संयोजनार्थं दूरमुत्थाप्यते । अनन्तरं निपतत्यपीति ।। मर्षतु मर्षत्वार्यः। परिहासः खल्वेषः । उपवासः, उपवासरूपं

व्रतमित्यर्थः । अधिकरणघञन्तोऽयम् । अहिवदी णाम अभिरूपपतिर्नाम् ॥



  1. पाठाo- १ खु मए कदो.