प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४२
मृच्छकटिके

पवनचपलबेगः स्थूलघाराशरौघः
स्ते नितपटहनादः स्पष्टविद्युत्पताकः ।
इरति करसमूह खे शशाङ्कस्य मेध
नृप इव पुरमध्ये मन्दवीर्यस्य शत्रोः ॥ १७ ॥

 वसन्तसेना---एवं एणेदं । ती कधं एसो अवरो ? । [एवं न्वि- वम् । तत्कथमेषोऽपरः १]

एतैरेव यदा गजेन्द्रमलिनैरामातलम्बोदरै-
गर्जद्भिः सतडिद्वैलाकशबलैर्मचैः सशल्यं मनः ।
ताकि प्रोषितभबध्यपटहो हा हा हताशो बकः
प्रवृद् प्रावृडिति ब्रवीति शठधीः क्षारं क्षते प्रक्षिपन् ॥ १८॥

 विटः---वसन्तसेने । एवमेतत् । इदमपरं पश्य

बलाका पाण्डुरोष्णीषं विद्युत्क्षिप्तचमिग्म् ।।
मत्तवारण सारूप्यं कर्तुकाममिवाम्बरम् ॥ १९ ॥

 वसन्तसेना-भाव ! पेक्ख पैक्ख । [ भाव ! पश्य पश्य ।]

एतैरार्द्रतमालपत्रमलिनैरापीतसूर्य नभो
वल्मीकाः शरताडिता इव गजाः सीदन्ति धाराहताः ।
विद्युत्काञ्चनदीपिकेव रचिता प्रासादसंवारिणी ।
ज्योत्स्ना दुर्बलभर्तृकेव वनिता प्रोत्सार्य मेधैर्हता ॥ २० ॥

 विटः–वसन्तसेने ! पश्य पश्य ।

एते हि विद्युहुणबद्ध कक्षा गजा इवान्योन्यमभिद्रवन्तः ।
शक्राझया वारिधराः सधारा गां रूप्यरज्वेव समुद्धरन्ति ॥ २१ ॥


मेधा इति ॥ १६ ॥ अयमपर इति शत्रोः पुनर्मध्य इत्यर्थात् । पवनेति। करसमूह अंशु-राजप्रायभागौ ॥ १७ ॥ एतैरिति । 'प्रोषितभर्तृ'शब्दात 'न नित्यः समासान्तः' इति न ‘न धृतश्च' इति कम् ॥ १८ ॥ बलाकेति ॥ १९ ॥ एतैरिति ॥ २० ॥ एत इति । कक्षा मध्यबन्धनम् । गां भूमिम् | दिप-1 स्तनतं मेघगर्जितम् , पटवा नगर' इति प्रसिद्धः । अत्रे पुणे- पमालंकारः । ॐ बलाका बकप: स्यात्' इति कोश: । वारणस्यापि कर्मयोश्चामरे

शिरसि विचित्रवस्त्र च भवति । द्वाधिमा नीलिमा चेति गज-गगनयोरुपमा ।