पृष्ठम्:मृच्छकटिकम्.pdf/१५१

पुटमेतत् सुपुष्टितम्
१४३
पञ्चमोऽङ्कः

अपि च, पश्य

महावाताध्मातैर्महिषकुलनीलैर्जलधरै-
श्चलैर्विद्युत्पक्षैर्जलधिभिरिवान्तःप्रचलितैः ।
इयं गन्धोद्दामा नवहरितशष्पाकुरवती
धरा धारापातैर्मणिमयशरैर्भिद्यत इव ॥ २२ ॥

 वसन्तसेना----भाव ! एसो अवरो ! । [ भाव ! एषोऽपरः ।।

एह्येति शिखण्डिनां पटुतरं केकाभिराक्रन्दितः ।
प्रोड्डीयेव बलाकया सरभसं सोत्कण्ठमालिङ्गितः ।
हंसैरुज्झितपङ्कजैरतितरां सोद्वेगमुद्वीक्षितः
कुर्वन्नञ्जनमेचका इव दिशो मेघः समुत्तिष्ठति ॥ २३ ॥

 विटः-एवमेतत्; तथा हि पश्य

निष्पन्दीकृतपद्मषण्डनयनं नष्टक्षपावासरं
विद्युद्भिः क्षणनष्ट दृष्टतिमिरं प्रच्छादिताशामुखम् ।
निश्चेष्टं स्वपितीव संप्रति पयोधारागृहान्तर्गतं
स्फीताम्भोधरधामनैकजलदच्छत्रापिधानं जगत् ॥ २४ ॥

 वसन्तसेना-भाव एव्वं ण्णेदं । ता पेक्ख पेक्ख । [भाव! एवं न्विदम्; तत्पश्य पश्य ।]

गता नाशं तारा उपकृतमसाधाविव जने
वियुक्ताः कान्तेन स्त्रिय इव न राजन्ति ककुभः ।


॥२१॥ महेति । शष्कुपाङ्कुरा संलग्नशरतुल्याः ॥२२॥ एहीति ॥२३ । मेचकाः श्यामाः ।। निष्पन्दीति ॥२४॥ गता इति । गगनं जलरूपेण द्रवीभूतं पतति ।


टिप्प०-1 शिखण्डिनां मयूराणां, “केका वाणी मयूरस्य' इत्यमरः, ताभिः पटुतरं यथा स्यात्तथा 'एह्येहि' इत्याक्रन्दित आहूतः, आदरेऽत्रवीप्सा; सरभसं सावेगम् , उत्कण्ठाऽऽवेगयोरन्योन्यं जन्यजनकभाव इति भेदः । प्रावृषि न स्थितिर्मेघा- नाम् इति ‘सोद्वेगम्' इत्युक्तम् । अञ्जनवत् मेचका: श्यामाः, दिशः कुर्वन्नेषोऽपरो

मेघो हि समुत्तिष्ठति इत्यन्वयः ।