प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४६
मृच्छकटिके

भवतु एवं तावत् । भो भोः ! निवेद्यतामार्यचारुदत्ताय

एषा फुलकदम्बनीपसुरभौ काले धनोद्भासिते
कान्तस्यालयमागता समदना हृष्टा जलालका ।
विद्युद्वारिदगर्जतैः सचकिती त्वदर्शनकाङ्किणी
पादौ नूपुरलग्नकर्दमधरौ प्रक्षालयन्ती स्थिता ॥ ३५ ॥

 चारुदत्तः--( आकर्त्य ) वयस्य | ज्ञायत किमेतदिति ।

 विदूषकः-जं भवं आणवेदि । (वसन्तसेनामुपगम्य, सादरम्) सोत्थि भोदीए । [ यद्भवानाज्ञापयति । स्वस्ति भवत्यै।]

 वसन्तसेना-अज्ज ! वंदामि । साअदं अज्ञस्स । ( विटं प्रति ) भाव ! एसा छत्तधारिआ भावस्स जेव्व भोदु। [आर्य! बन्दे । स्वागतमा येस्य । भाव! एषा छत्रधारिका भावस्यैव भवतु ।।

 विटः---( खगतम्) अनेनोपायेन निपुणं प्रेषितोऽस्मि । ( प्रकाशम् ) एवं भवतु भवति वसन्तसेने !

साटोपटकपटानृतजन्मभूमेः
शाठ्यात्मकस्य रतिकेलिंकृतालयस्य ।
धेश्यापणस्य सुरतोत्सवसंग्रहस्य
दाक्षिण्यंपण्यमुखनिष्क्रयसिद्धिरस्तु ॥ ३६॥

( इति निष्कान्तो विटः )

 वसन्तसेना--अज मित्तेअ ! कहिं तुम्हाणं जूदिअरो ? ।। [ आर्य मैत्रेय ! कुन्न युष्माकं द्यूतकरः ? ।।


ऐरावत इति ॥ ३३ ॥ यदिति ॥ ३४ ॥ एषेति ॥ ३५ ॥ साटोपेति । आटोपो दम्भः, कूटै माया, कपट छद्म, अनृतं मृषाभाषणम् । निवप्राकळ्यभेदा- स्कूटकपदयोभैदः । एतेषां जन्मभूमेः । वेश्यापणो वेश्याव्यवहारः । व्यज्यके- त्यर्थः (१)। दाक्षिण्यपण्यप्रधानं निष्कृयो मूल्यम् ।। ३६ ॥ अपि पारयिष्यामि ॥ टिप्प-1 सुरतोत्सवप्रधानस्येत्यर्थः । 2 कामतनैपुण्येन यत् क्रयक्रीवं सुखं

नाम वेश्यासंभोगादिसुखं तत् एण्यसुखमुच्यते, तद्रा मूल्यस्य सिद्धिरस्तु ।