विदूषकः---स्वगतम्) ही ही भो, जूदिअरो त्ति भणतीए अलंकिदो पिअबअस्सो । (प्रकाशम् ) भोदि ! एसो खु सुक्खरुखवाडिआए । [ आश्चर्य, भोः द्यूतकर इति भणन्त्यालंकृतः प्रियवयस्यः । भवति ! एष खलु शुष्कवृक्षवाटिकायाम् ।।
वसन्तसेना-अज्ज ! का तुम्हाणं सुक्खरुक्खवाडिआ वुच्चदि ?। [ आर्य ! का युष्माकं शुष्कवृक्षवाटिकोच्यते ?।]
विदषकः----भोदि । जहिं ण खाईअदि, ण पीईअदि । [ भवति ! यत्र न खाद्यते, न पीयते ।]
( वसन्तसेना स्मितं करोति )
विदूषकः--ता पविसदु भोदी । [ तस्मात्प्रविशतु भवती ।]
वसन्तसेना----{ जनान्तिकम् ) एत्थ पविसिअ किं मए भणिदव्वं ।। [ अत्र प्रविश्य किं मया भणितव्यम् ?।]
चेटी---‘जूदिअर | अवि सुहो दे पदोसो ? ति ।[ द्यूतकर ! अपि सुखस्ते प्रदोषः ?' इति ।
वसन्तसेना-अवि पारइस्सं ? । [ अपि पारयिष्यामि ? । }
चेटी–अवसरो जेव्व पारइस्सदि । [ अवसर एव पारयिष्यति ।]
विदूषकः--पविसदु भोदी । [प्रविशतु भवती ।]
वसन्तसेना—(प्रविश्योपसृत्य च, पुष्पैस्ताडयन्ती ) अइ जूदिअर ! अवि सुहो दे पदोसो ? । [ अयि द्यूतकर ! अपि सुखस्ते प्रदोषः ? । ]
चारुदत्तः---( अवलोक्य ) अये, वसन्तसेना प्राप्ता । (सहर्षमुत्थाय ) अयि प्रिये !