प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५०
मृच्छकटिके

 विषकः--( सहर्षम् ) भो अस्स ! तं जेव्व एदं सुवण्णभंडअं, जं अम्हाणं गेहे चोरेहिं अवहिदं । [ भो वयस्य ! तदेवेदं तस्सुवर्णभाण्डम् , यदस्माकं गृहे चौरैरपहृतम् । ]

 चारुदत्तः–चयस्य !

{{block center|{{bold|<poem>योऽस्माभिश्चिन्तितो व्याजः कतै न्यासप्रतिक्रियाम् ।। स एव प्रस्तुतोऽस्माकं किंतु सत्यं विडम्बना ॥ ३९ ॥

 विदूषकः--भो वअस्स ! सच्च सवामि बम्हणेण । [ भो वयस्य ! सत्यं शपे ब्राह्मण्येन ।

 चारुदत्तः---प्रियं नः प्रियम् ।।

 विदूषकः-( जनान्तिकम् ) भो ! पुच्छामिणं कुदो एदं समा- सादिदं त्ति । [भोः ! पृच्छामि-ननु कुत इदं समासादितमिति ।]

 चारुदत्तः--को दोषः १ ।।

 विदूषकः---(चेट्याः कर्णे) एवं विअ । [एँवमिव । ]

 चेटी—( विदूषकस्य कर्णे ) एवं विअ । [एवमिव ।]

 चारुदत्तः--किमिदं कथ्यते ।। किं वयं बाह्याः १ ।।

 विदूषकः---(चारुदत्तस्य कर्णे ) एवं विअ । [एँवमिव ।]


प्रेष्यतां भुज्यताम् (१) । य इति । किं तु स एव व्याजो विडम्बनास्माकं प्रस्तुत आरब्धा । ३९ ॥ अथवा सत्यमेवेदम् । अथवेति प्रकरणात्प्रसीयते । बम्हण्णेण टिप्प०-1 स व्याज एवास्माकं प्रस्तुती रसावलीप्रत्युत्तरत्वेनावतीर्ण इति निष्कर्षः। 2 शक्तिकेन वसन्तसेनाया गृहं गत्वा यस्य सुवर्णभावस्य दानेन मदनिका निकीता तदेवेदं सवर्णभाण्डमिति ‘एवमिव इत्यस्याशयः । ॐ तत्सर्व विदूषकेन चारुदत्ताय कथितं 'एवमिव' इत्यनेन ।