एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५१
पञ्चमोऽङ्कः

 चारुदत्तः-- भद्रे ! सत्यं तदेवेदं सुवर्णभाण्डम् ।

 बेटी--अज्ज ! अध ई । [ आर्य ! अथ किम्? ]

 चारुदत्तः---भद्रे ! न कदाचित्प्रियनिवेदनं निष्फलीकृतं मया । तद्ह्यतां पारितोषिकमिदमङ्गुलीयकम् । (इत्यनङ्गुलीयकं हस्तमवलोक्य लज्जा नाटयति )

 वसन्तसेना-( आत्मगतम् ) अदो जेव्व कामीअसि । [ अत एवं काम्यसे ।।

 चारुदत्तः--( जनान्तिकम् ) भोः ! कष्टम्;

धनैर्वियुक्तस्य नरस्य लोके किं जीवितेनादित एव तावत् ।
यस्य प्रतीकारनिरर्थकत्वात्कोपप्रसादा विफलीभवन्ति ॥ ४० ॥

अपि च,---

पक्षविकलश्च पक्षी शुष्कश्च तरुः सरश्च जलहीनम्।
सर्पश्चोतदंष्ट्रस्तुल्यं लोके दरिद्रश्च ॥ ४१ ॥


अपि च,

शून्यैऎहैः खलु समाः पुरुष दरिद्राः
कूपैश्च तोयरहितैस्तरुभिश्च शीः ।
यद्दष्टपूर्वजनसंगमविस्मृताना-
मेयं भवन्ति चिफलाः परितोषकालाः ॥ ४२ ॥



प्राण्येन ॥ धनैरिति ॥ ४० ॥ पक्षेति ॥ ४१ ॥ शून्यैरिति । यद्दष्टेति । यतो यस्माद्दष्टपूर्वस्य जनस्य संगमेनोत्तरलतया वर्तमानखदैन्यविस्मृतीनां पाठा०-२-१ विफल भवन्ति,


  • - ...

---

| टिप्प----1 धनैर्वियुक्तस्य धनहीनावस्थमापन्नस्य कोप-प्रसादा विफलीभवन्ति; यतः स कोपे प्रतिकतु प्रसादे चोपकर्तुं सर्वथाऽसमर्थः। 2 संगस्य बडुकाञ्चनसाध्य- सया स्वस्याकिञ्चनत्वेन च दुर्लभतया कादाचित्कतया च विस्मृतत्वं बोध्यम् । अथवा वर्तमानस्वदैन्यं विस्मृतान मत्सदुशपुरुषाणां ईदुशपरमोत्कर्षशालिर्षकालेऽधि दातुं किमपि नास्तीति परितोषकालानां भवति वैफल्यमित्याशयः ।