पृष्ठम्:मृच्छकटिकम्.pdf/१६

पुटमेतत् सुपुष्टितम्
मृच्छकटिके

नटी— अहिरूअवदी णाम। [अभिरूपपतिर्नाम।]

सूत्रधारः— अज्जे! इहलोइओ आदु पारलोइओ? [आर्ये! इहलौकिकोऽथवा पारलौकिकः?]

नटी—अज्ज! पारलोइओ। [आर्य! पारलौकिकः।]

सूत्रधारः(सरोषम्।) पेक्खंतु पेक्खंतु अज्जमिस्सा! ममकेरकेण भत्तपरिव्वएण पारलोइओ भत्ता अण्णेसीअदि। [प्रेक्षन्तां प्रेक्षन्तामार्यमिश्राः! मदीयेन भक्तपरिव्ययेन पारलौकिको भर्तान्विष्यते।]

नटी— अज्ज! पसीद पसीद। तुमं ज्जेव्व जम्मंतरे वि भविस्ससि त्ति उववसिदम्हि। [आर्य! प्रसीद प्रसीद। त्वमेव जन्मान्तरेऽपि भविष्यसीत्युपोषिताऽस्मि।]

सूत्रधारः—अध अअं उववासो केण दे उवदिट्ठो? [अथायमुपवासः केन तवोपदिष्टः?]

नटी—अज्जस्स ज्जेव्व पिअवअस्सेण जुण्णवुड्ढेण। [आर्यस्यैक प्रियवयस्येन जूर्णवृद्धेन।]

सूत्रधारः(सकोपम्।) आः दासीए उत्ता जुण्णवुड्ढा, कदा णु हु तुमं कुविदेण रण्णा पालएण णववहूकेसहत्थं विअ ससुअंधं कप्पिज्जंतं पेक्खिस्सं। [आः दास्याःपुत्र जूर्णवृद्ध! कदा नु खलु त्वां कुपितेन राज्ञा पालकेन नववधूकेशहस्तमिव ससुगन्धं छेद्यमानं प्रेक्षिष्ये।]


'पारलौकिक" इत्यनेन पालकव्युदासेन नायकान्तरलोभसूचनम् ॥ ममकेरकेण मदीयेन । भत्तपरिब्बएण भक्तपरिव्ययेन, ओदनव्ययेनेत्यर्थः । यद्वा,-भर्तृपरि- त्यागेन । पारलौकिको भर्ताऽन्विष्यते ॥ त्वमेव जन्मान्तरे भविष्यसीति ॥ अयमुपवासः केन तवोपदिष्ट: ? ॥ आर्यस्येव प्रियवयसेन जुर्ण वृद्धेन । आक्षेपे । छयं आदुत्या आकारान्तादेशे कृते जूर्णवृद्धा इति । एवं च 'दूआ तीआ' इत्यादौ च बोद्धव्यम् । कुपितेन राज्ञा पालकेन । कापज्जंतं कल्प्यमानं